________________
काण्डम् ]
शक्तिवादः।
(११)
एतेन शाब्दबोधौपायकसम्बन्धत्वेन ईश्वरसंकेतज्ञानं हेतुस्तञ्च मीमांसकानामपि संभवति तादृशज्ञानविरोधिविपरीतज्ञानाभावादित्यपि निरस्तम् ।
यत्तु स्वजन्यज्ञानविषयत्वप्रकारकेच्छाविशेष्यत्वमर्थे पदसम्बन्धः पदे चार्थस्य विपरीतः, अस्य सम्बन्धत्वमन्यथानुपपत्त्या कल्प्यते, एतादृशपरम्पराया अपभ्रंशादिस्थले सम्बन्धत्वं न स्वीक्रियते इति तत्र तत्सम्बन्धावगाहि ज्ञानं भ्रम
सम्बन्धत्वसम्भवोपि नास्ति सम्बन्धस्यामा च पदार्थोपस्थापकत्वामावस्तेन च वृतित्वमा अनर्थः । यद्यपि पदज्ञानस्यैव पदार्थोपस्यापकत्वमस्ति तथापि संकेतज्ञानस्यापि सहकारित्वात् संकेतस्य पदार्थोपस्थापकत्वमुक्तमित्यवधेयम् । प्रत्युत ‘पदमर्थवाचकमर्थश्च पदवाच्यः' इत्येवं प्रतीतिसत्वाद् वाच्यवाचकभाव एव पदपदार्थयोः सम्बंध इति मीमांसकामिप्रायः ।
ननु यदीश्वरसंकेतत्वेन रूपेणेश्वरसंकेतस्य ज्ञानं शाब्दबोधहेतुरित्युच्येत तदेश्वरानङ्गीकर्तृमते ईश्वरज्ञानासंभवाच्छाब्दबोधानुपपत्तिः स्यादपि न चैवमस्ति किं त्वीश्वरसंकेतस्यापि शाब्दबोधौपयिकसम्बंधत्वेन ज्ञानं शान्दबोधहेतुरित्युच्यते तच्च ईश्वरसंकेतस्यापि शाब्दबोधौपयिक ( शाब्दबोधोपायभूत ) सम्बन्धत्वेन ज्ञानं तु मीमांसकानामपि संभवत्येत्र, अत्र हेतुमाह- तादृशेति, तादृशज्ञानस्य ईश्वरसंकेतस्य शाब्दबोधौपयिकसंबन्धत्वेन ज्ञानस्य विरोधिभूतं यद् विपरीत ज्ञानम् ='ईश्वरसंकेतः शाब्दबोधौपयिकसम्बन्धो न' इत्याकारकं झानं तदभावात, ईश्वरसंकेतः शाब्दबोधौपयिकसम्बन्धो न इत्याकारकं ज्ञानं प्रत्यपीश्वरज्ञानापेक्षास्ति न चेश्वरज्ञानं मीमांसकानां संभवतीत्यभिप्रायेणाह-- एतेनेति । एतेन-उक्तेनेत्यपि निरस्तमित्यन्वयः, थदीश्वर. संकेतस्य सम्बन्धत्वं स्यात्तदेश्वरसंकेतस्य शाब्दबोधौपयिकसम्बन्धत्वेन ज्ञानं स्यादपि तेन च शाब्दबोधोपि स्याद् न चेश्वरसंकेतस्य सम्बन्धत्वं सम्भवति निष्प्रतियोगिकत्वादित्यर्थः।
पुनराशङ्कते-यत्त्विति । स्वजन्यज्ञानविषयत्वप्रकारकेच्छाविशेष्यत्वं नाम पदजन्यो यो बोधस्तादृशबोधनिरूपितं यदर्थे विषयत्वं तादृशविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यत्वं सच्चार्थेऽस्त्येव तदेवार्थे पदस्य सम्बन्धः एतादृशसम्बन्धेन पदविशिष्टोऽर्थ इतियावत् पदे चार्थस्य सम्बन्धो विपरीतो नाम स्व( अर्थ )विषयकबोधजनकत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यत्वं तच्च पदेऽस्त्येव, उक्ते प्रमाणमाह-अस्येति, अस्य स्व जन्येत्यायुक्तसम्बन्धद्वयस्य, पदज्ञानेन पदार्थोपस्थितिर्भवत्येव सा च पदपदार्थयोः सम्बन्धं विना नोपपद्यते इत्यन्यथानुपपत्त्या स्वजन्येत्यायुक्तस्य सम्बन्धत्वं कल्प्यते, सिद्धे च सम्बन्धे “एकसम्बन्धिज्ञानमपरसंबन्धिस्मारकम्।" इतिश्यायेन पदज्ञानादर्थोपस्थितिः संभवति, ननु स्वजन्येत्यायुक्तपरम्परासंबन्धोऽपभ्रंशादिस्थलेपि 'स्यात् तेन चापभ्रंशस्यापिवाचकरवं साधुत्वं च स्यादित्याशङ्कयाह-एतादृशेति । तत्र अपभ्रंशादि स्थले । तत्सम्बन्धावगाहि-स्वजन्येत्याद्युक्तसंबन्धावगाहि ज्ञानं भ्रमात्मकमेवेति नापभ्रंशस्य.वाचक