________________
काण्डम् ]
शक्तिवादः। वदुच्चरितजातीयत्वनिवेशोप वेदस्थलाक्षणिकेषु शब्देष्वसिव्याप्तेः, सादिदेवदत्तादिपदेऽव्याप्तेश्च । “द्वादशेहि पिता नाम कुर्यात्' इतिवेदस्थनामपदस्य देव. दत्तादिपदपरत्वोपे देवदत्तेत्यादिस्वरूपाणां भगवदनुचरितत्वात् ।
एवम्-ईश्वरसंकेतस्य शक्तित्वे ईश्वरानङ्गीकर्तृमते शाब्दबोधानुपपत्तिः।
--
द्युञ्चरितघटादिपदानामपि भगदुचरितत्वाभावाद्वाचकत्वं न स्यादित्यव्याप्तिारत्यर्थः । ननु ताहशेच्छया भगवदुचरितसजातीयत्वं वाचकत्वमिति वक्ष्यामस्तथा चाऽस्मदाधुचरितघटादिपदानां भगवदुचरितघटादिपदस जातीयत्वेन न वाचकत्वानुपपत्तिरित्याशङ्कयाह--भगवदुचरितसजातीयत्वेति, अत्रापि दोषमाह-वेदस्थेति, भगवदुच्चरितसजातीयत्वनिवेशेनाऽस्मदाधुञ्चरितघटा दिपदानां वाचकत्वे प्राप्तेपि वेदस्थलाक्षणिकेषु शब्देषु="आदित्यो वै यूपः" इत्यादिवेदवाक्यवटकाऽऽदित्यादिशब्देष्वप्यस्मदाथुचरितेषु तादृशेच्छया भगवदुचरितसजातीयत्वसत्त्वेन वाचकत्यस्यातिव्याप्तिः स्याद् न चैतेषां वाचकत्वमिष्टं लाक्षणिकत्वस्वीकारादित्यर्थः,किं चैवं भगवदुचरितशब्दानां वाचकत्वं न स्यात्-भगवदुचारतसजातीयत्वाभावात् । दोषान्तरमाह-सादीति, सादिभूतं देवदत्ता. दिपदं भगवता देवदत्तादिव्यक्तिबोधनाय नोचरितमिति तस्य वाचकत्वं न स्याद् इष्टं च न्याय. मते तस्यापि वाचकत्वमित्यव्यातिः । सादित्वं च देवदत्तादिशब्दानामेवेष्टं न घटादिशब्दानामिति सादित्वं स्वजन्यबोधविषयतावच्छेदकधर्मावच्छिन्नविषयकबोधानुत्तरत्वं विज्ञेयं स्वं देव. दत्तादिपदं तज्जन्यो यो देवदत्तादिविषयको बोधस्तादृशबोधविषयताया अवच्छेदको धर्मो देवदत्तत्वं तदवच्छिन्न देवदत्त )विषयको यो बोधो देवदत्तपदजन्यशाब्दबोधस्तदनुत्तरत्वम् = पूर्वभावित्वं देवदत्तपदेऽस्त्येव देवदत्तपदजन्यशाब्दबोधापेक्षया देवदत्तपदस्य पूर्वभाषित्वाद् देवदत्तव्यक्तौ देवदत्तपदसंकेतानन्तरमेव देवदत्तपदजन्यशाब्दबोधसंभवात् , यद्यपि तर्कमते घटादिशब्दोपि सादिरेव तथापि न तस्य घटत्वावच्छिन्नविषयकबोधानुत्तरत्वम्-ईश्वरीयघटविषयकबोधानन्तरमेव घटादिशब्दानी जातत्वादित्यवधेयम् । ननु "द्वादशेऽहनि पिता नाम कुर्यात्' इति श्रूयते तथा चैतद्वेदवाक्यघटकं नामपदं देवदत्तादिपदपरमेवेति देवदत्तादिपदानां समान्यतो नामपदेन भगवदुचरितत्वं प्राप्तमिति न तेषु वाचकत्वाव्याप्तिरित्याशङ्याह-द्वादशेति, उत्तरमाह-देवदत्तेत्यादिस्वरूपाणामिति, स्वरूपाणाम् आनुपूर्वीगाम्, भगवता हि नामपदमेवोचारितं न तु देवदत्तादिपदमिति देवदत्तादिपदानां भगवदनुचरितत्वाद्वाचकत्वानुपपत्तिस्तदव. स्थैवेत्यर्थः । - किं च विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादीश्वरसंकेतस्य शक्तित्वे तादृशशक्तिज्ञानार्थमीश्वरज्ञानापेक्षास्ति-ईश्वरसंकेतरूपशक्तावीश्वरस्य विशेषणत्वाद् ईश्वरानङ्गीकर्तुश्च मीमांसकस्येश्वरज्ञानासंभवेन ईश्वरसंकेतरूपशक्तेरपि ज्ञानं न संभवति तथा च शाब्दबोधानुपपत्ति:शाब्दबोधं प्रति शक्तिज्ञानस्य कारणत्वादित्यभिप्रायेण दोषान्तरमाह-एवमिति ।