________________
(६)
सादर्शः
[ सामान्यअत्र मीमांसकानुयायिनः-अपभ्रंशादपि शक्तिभ्रमेणार्थप्रत्ययात् सन्मात्रविषयके भगवत्संकेते तस्यापि बोधकत्वेन विषयत्वमिति नैयायिकैरभ्युपगमात् तस्यापि वाचकत्वं साधुत्वं च स्यात् । एवं लाक्षणिकगङ्गादिपदस्योक्तयुक्त्या तीरादिवाचकत्वापत्तिः।
यत्तु तादशेच्छया भगवदुचरितत्वं वाचकत्वम् अपभ्रंशादयश्च नाऽर्थप्रत्यायने. च्छया भगवदुच्चरिता इति नातिप्रसङ्गा, तन्न-अस्मदाद्युच्चरितपदेष्वऽव्याप्तेः । भगविशेष्यकशक्तिपक्ष 'पदेन गौरुच्यते ' इत्यत्र 'धात्वर्थीभूततादृशविषयतानिरूपकबोधजनकत्वनिष्ठप्रकारतान्तःपातिबोधनिष्टविषयतानिरूपकविषयितासंबन्धावच्छिन्नप्रकारता कर्मप्रत्ययार्थः । इत्युक्तम् “अस्मात् पदात्" इत्याकारकार्थविशेष्यकशक्तिपक्षे तु 'पदेन गौरुच्यते ' इत्यत्र पदनिष्ठा या प्रकारता तादृशप्रकारतानिरूपितजन्यत्वनिष्ठविशेष्यतासमानाधिकरणप्रकारतानिरूपितबोधनिष्टविशेष्यतासमानाधिकरणप्रकारतानिरूपितविषयत्वनिष्ठविशेष्यतासमानाधिकरणाकारतानिरूपितविशेष्यता कर्मप्रत्ययार्थो जात इति वैपरीत्यम् । पदविशेष्यकत्वार्थविशेष्यकत्वाभ्यामपि धैपरीत्यं विज्ञेयम् । “ अस्मात् पदत् " इत्याकारकशक्तिपक्षे ' पदं गां वक्ति ' इत्यत्र 'धात्वर्थीभूतोक्तप्रकारतासमानाधिकरणविशेष्यताश्रयः पदम्' इति शाब्दबोधः-अत्र पदे भगवदिच्छानिरूपितप्रकारतायाः शाब्दबोधीयविशेष्यतायाश्च सत्त्वात् । ‘पदेन गौरुच्यते । इत्यत्र च प्रत्ययार्थीभूतोक्तविशेष्यताश्रयो गौः' इतिशाब्दबोधः । बोधविषयरधनिष्ठप्रकारतानिरूपितगोत्वाद्यवच्छिन्नविशेष्यताका चैषा भगवदिच्छा विज्ञेया । विस्तरस्तु विशिष्टगुरोरवगन्तव्यः ।
न्यायमतविषयकमीमांसककृतकुचोद्यमनुवदति-अत्रेत्यादिना, अपभ्रंशात्-नागरीत्यादिलौकिकशब्दात् । तस्य--अपभ्रंशस्य । अयमर्थः--गगरीत्याद्यपभ्रंशशब्दाद् घटादिपदार्थबोधः शक्तिभ्रमेण भवति भगवदिच्छा च सन्मात्रविषयास्ति अपनंशशब्दस्तनिष्ठ बोधकत्वं तद्वोध्यो घटादिश्च सदेवेति तस्यापि अपभ्रंशस्यापि बोधकत्वेन रूपेण भगवत्संकेतविषयत्वं प्राप्तं बोधकरवेन भगवत्संकेतविषयत्वमेव च वाचकत्वं साधुत्वं चेति नैयायिकैरभ्युपगम्यते तथा च तस्य:अपभ्रंशस्यापि बोधकत्वेन रूपेण भगवत्संकेतविषयत्वाद् वाचकत्वं साधुत्वं च प्राप्नोति न च नैयायिकैरपभ्रंशस्य वाचकत्वं साधुत्वं च स्वीक्रियते इत्याक्षेपः। दोषान्तरमाह-एवमिति । उक्तयुक्तयेति-बोधकत्वेन भगवत्संकेतविषयत्वमेव वाचकत्वं भगवत्संकेतश्च सन्मात्रविषयो गङ्गादिपदेन तीरादिबोधनमपि च सदेवेति गङ्गादिपदस्यापि तीरादिबोधकत्वेन भगवत्संकेतविषयत्वं प्राप्तमिति गङ्गादिपदस्य तीरादिवाचकत्यापत्तिः, न चैतदिष्टमित्यर्थः ।
ननु न बोधकत्वेन भगत्संकेतविषयत्वं वाचकत्वं येनोक्तदोषापत्तिः स्यात् किं तु तादृशेच्छयाबोधकश्वेच्छया "इदं पदमिममर्थ बोधयतु"इत्याद्याकारकेच्छयेति यावद्भगवदुश्चरितत्वमेव वाचकत्वम् अपभ्रंशशब्दाश्च नार्थप्रत्यायनेच्छया भगवदुचरिता इति अतिप्रसङ्गः अपभ्रंशानां वाचकत्वापत्तिर्नास्तीत्याशङ्कते- यत्त्विति । परिहरति- तन्नेति, एवं हि न्यायमते पदानामनित्वेनाऽस्मदा