________________
काण्डम् ]
शक्तिवादः।
कत्यप्रकारतान्तःपातिबोधनिष्ठविषयतानिरूपकविषयितासंबन्धावच्छिन्नप्रकारता. श्रयत्वरूपं तादृशक्रियाकर्मत्वं गवादौ कर्मप्रत्ययेन बोध्यते ।
द्वितीयेच्छायाः संकेतरूपत्वे वैपरीत्यभूमिति न्यायसिद्धान्तः ।
तभगवदिच्छीयविषयता' इत्यत्र 'बोधो जनकत्वं प्रकारता विषयता च । एते चत्वारः पदार्थाः सन्ति तत्राऽन्त्यविषयतायाः (धात्वर्थीभूततादृशविषयतायाः ) निरूपिका बोधजनकत्वनिष्ठा प्रकारता प्राह्या--बोधजनकत्वनिष्ठप्रकारतानिरूपिताया एव भगवदिच्छीयविषयताया धात्वर्थत्वस्वीकारात् तादशप्रकारतान्तःपाती यो बोधस्तादृशबोधनिष्ठा या विषयतानिरूपिका विषयिता ( विषयता चात्र गवादिपदार्थनिष्टा ग्राह्या तन्निरूपकविषयिताया बोधे सत्वात् ) तादृशवि. षयितासंबन्धेन गवादिपदार्थस्य बोधेऽन्धयस्वीकाराद् गवादिपदार्थनिष्ठा प्रकारता विषयितासंबन्धा. वच्छिन्ना जाता तादृशप्रकारताश्रयत्वं यत् तदेव तादशक्रियाकर्मत्वमत्र गवादावस्ति तच्च कर्मत्वं पदनिष्ठधात्वर्थीभूततादशविषयतायाः परम्परया बोधजनकत्वनिष्ठप्रकारताद्वारा निरूपकरवरूपमस्ति- बोधस्यात्र गोविषयकत्वेन गोबर्बोधविशेषणत्वाद् बोधजनकत्वनिष्ठप्रकारताद्वारा गोर्धात्वर्थीभूतोक्तविषयतानिरूपकत्वात् तस्मात् तादृशगोनिष्टकर्मत्वं परम्परया पदनिष्ठधात्वर्थीभूततादृशविषयतानिरूपकत्वरूपं जातम्, तादृशविषयतायाः साक्षानिरूपकत्वं तु बोधजनकत्वनिष्ठप्रकरतायामस्तीतिसारः । अत्र 'पदनिष्टधात्वर्थीभूततादृश विषयतानिरूपकबोधजनकत्वनिष्ठप्रका. रतान्त:पातिबोधनिष्ठबिषयतानिरूपकविषयितासंबन्धावच्छिन्न प्रकारताश्रयो गौः इति शाब्दबोधः । ___ अत्रापि पदविशेष्यकभगवदिच्छास्वीकारादुक्तम्-पदनिष्ठेति, तथा च भगवदिच्छानिरूपित. विशेष्यतात्र पदेस्ति बोधनिरूपितविशेष्यता च गव्यस्ति-प्रथमान्तार्थमुख्यविशेष्यकबोधस्वीका. रादित्यवधेयम् । पदविशेष्यकेश्वरेच्छारूपशक्तिपक्षे 'पदेन गौरुच्यते ' इत्याकारकार्थविशेश्यक. शाब्दबोधः, अर्थविशेष्यकशक्तिपक्षे च 'पदं गां वक्ति ' इत्याकारकपदविशेष्यकशाब्दबोधः कथं स्यादिति तु न शक्यम्-शक्तिभूतेश्वरेच्छायाः शाब्दबोधनियामकत्वाभावात, काममीश्वरेच्छा पाशी तादृशी भवतु सर्वविधेश्वरेच्छापक्षेपि सर्वविधः शाब्दबोधः संभवतीति प्रत्येकमीश्वरेच्छा. रूपशक्तिपक्षे पदविशेष्यकोऽर्थविशेष्यकश्च शाब्दवोधो नानुपपन्नः ।
अर्थविशेष्यकभगवदिच्छारूपशक्तिमुद्दिश्याह-द्वितीयेच्छाया इति, द्वितीयेच्छाया "अस्मात पदादयमों बोद्धव्यः" इतीच्छाया: संकेतरूपत्वे-शक्तित्वपक्षे । चैपरीत्यमिति " इदं पदमिममर्थ बोधयतु" इत्याकारकपदविशेष्यकशक्तिपक्षे 'पदं गां वक्ति ' इत्यत्र 'बोधजनकत्वनिष्ठप्र. कारतानिरूपितभगवदिच्छीयविशेष्यता धात्वर्थः । इत्युक्तम्, "अस्मात् पदात् " इत्याकारकार्थविशेष्यकशक्तिपक्षे तु 'पदं गां वक्ति' इत्यत्र विषयत्वनिष्ठप्रकारतासमानाधिकरणविशेष्य. तानिरूपितबोधनिष्ठप्रकारतासमानाधिकरणविशेष्यतानिरूपितजन्यत्वनिष्ठपकारतासमानाधिकरणविशेष्यतानिरूपितप्रकारता धात्वर्थो जात इति चैपरीत्यं तथा " इदं पदम् " इत्याकारकपद