SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ (४) सादर्श: [सामान्य-- वाच्यवाचकादिपदे ईश्वरेच्छाया बोधजनकत्वेन या विषयता सैव धात्वर्थस्तस्या आश्रयत्वरूपं कर्तृत्वं पदे कर्तृप्रत्ययेन बोध्यते 'पदं गां वक्ति. गां ब्रूते. गोर्वाचकम्' इत्यादौ कर्मप्रत्ययान्तेनार्थवाचकपदेन तत्तदर्थविषयकत्वरूपतत्तकर्मकत्वं धात्वथैकदेशे बोधे बोध्यते। 'पदेन गौरुच्यते' 'पदस्य गौर्वाच्यः' इत्यादौ पदनिष्ठधात्वर्थीभूततादृशविषयसायाः परम्परया निरूपकत्वम्, तच्च धात्वर्थीभूततादृशविषयतानिरूपकबोधजन 'गवादिर्वाच्यः' 'पदं वाचकम्' इत्यादिवाक्यघटकघाच्यवाचकादिपदप्रकृतिभूतवन्चधातोरर्थमाह-वाच्येति, उच्यते इति वाच्यः पदार्थः, वक्तीति वाचकं पदम्, “ईश्वरेच्छाया:" इतिषष्ठयों निरूपितत्वम्, "बोधजनकत्वेन" इतितृतीयाया वैशिष्ठयमर्थस्तथा च बोधजनकत्यसमानाधिकरणा या विषयतेति फलितं पदविशेष्यकेच्छापक्षे बोधजनकत्वविषयतयोः पदे सत्त्वादेव, ईश्वरेच्छाया बोध जनकत्वेन या विषयता नाम या बोधजनकत्वनिष्ठप्रकारता. निरूपितभगवदिच्छीयविषयता सैव वाच्यवाचकादिपदेषु धात्वर्थः, विषयता चैषा विशेष्यतास्यरूंगा विज्ञेया । आख्यातादिकर्तृप्रत्ययस्य व्युत्पत्तिवादोक्तदिशाऽऽश्रयत्वरूपकर्तृत्वे शक्ति स्वीकृयाह-तस्मा इति, तस्याः धात्वर्थीभूतविषयताया आश्रयत्वरा कर्तृत्वं पदे कर्तप्रत्ययेन-बक्ति ब्रूते इत्यादावाख्यातेन याचकमित्यत्र च कृता बोध्यते, पदे भगवदिच्छीयविषयतानिरूपिता कर्तृत्वरूपा कृतिर्न संभवतीति तादृशविषयतानिरूपितमाश्रयत्वमेवात्र कर्तृत्वं ग्राह्य तथा च "पदं गां वक्ति, गां ब्रूते, गोर्वा चकम्" इत्यादौ 'गोत्वावच्छिन्नविषयकबोधकजनस्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविषयता( विशेष्यता )ऽऽश्रयो गोपदम्' इति बोधाकारः । पदे बोधजनकत्वं बोधे च गवादिनिष्ठविषयतानिरूपकत्वं स्पष्टमेव । “पदं गां वक्ति'' इत्यादिवाक्यघटककर्मप्रत्ययान्तगवादिपदबोध्यमाह--पदमिति । कर्मप्रत्ययान्तेन द्वितीयादिविभक्त यन्तेन अर्थवाचकपदेन गवादिवाचकेन गामित्यादिपदेन तत्तदर्थविषयकत्वरूपम् गवाद्यर्थविषयकत्वरूपं यत् तत्तत्कर्मकत्वम् गवादिकर्मकत्वं तदेव धात्वर्थंकदेशभूते बोधे बोध्यते इत्यन्वयः, 'बोधजनकत्वनिष्ठ प्रकारतानिरूपितभगवदिच्छीयविशेष्यता . धात्वर्थः' इत्युक्तं तादृशधात्वर्थंकदेशत्वं सद्धटकबोधे स्पष्टमेव सादृशबोधे उक्तशाब्दबोधानुसारेण यद् गवादिपदार्थविषयकत्वरूपं गवादिपदार्थकर्मकल्वं भासते तत् कर्मप्रत्ययान्तगवादिपदादेव भासते तथा चात्र विषयत्वं कर्मप्रत्ययार्थ इति फलितम्, 'गोर्वाचकम्' इत्यत्र च षष्टी कर्मप्रत्ययः ।। ___ कर्मप्रत्ययान्तधातुघटितप्रयोगमुदाहरति-पदेनेति, 'पदेन गौरुच्यते' इत्यादी पदनिष्ठा या धात्वर्थीभूता तादृशविषयता नाम वोधजनकत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविषयता तस्याः परम्परया निरूपकत्वम्। परम्परया तन्निरूपकत्वम् ) गवादौ कर्मप्रत्ययेन-धातूत्तरवर्तिकर्भप्रत्यमेन वोध्यते इत्यन्वयः, तच्च निरूपकत्वं तादृशक्रियाकर्मत्यरूपम् वच्यादिक्रियाकर्मत्वरूपं विज्ञेयम् तादृशक्रियाकर्मत्वस्यापि स्वाभीष्टस्वरूपमाह- तच्चेति, 'बोधजनकत्वनिष्ठप्रकारतानिरूपि.
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy