Book Title: Shaktivadadarsha
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 15
________________ काण्डम् ] शक्तिवादः। वदुच्चरितजातीयत्वनिवेशोप वेदस्थलाक्षणिकेषु शब्देष्वसिव्याप्तेः, सादिदेवदत्तादिपदेऽव्याप्तेश्च । “द्वादशेहि पिता नाम कुर्यात्' इतिवेदस्थनामपदस्य देव. दत्तादिपदपरत्वोपे देवदत्तेत्यादिस्वरूपाणां भगवदनुचरितत्वात् । एवम्-ईश्वरसंकेतस्य शक्तित्वे ईश्वरानङ्गीकर्तृमते शाब्दबोधानुपपत्तिः। -- द्युञ्चरितघटादिपदानामपि भगदुचरितत्वाभावाद्वाचकत्वं न स्यादित्यव्याप्तिारत्यर्थः । ननु ताहशेच्छया भगवदुचरितसजातीयत्वं वाचकत्वमिति वक्ष्यामस्तथा चाऽस्मदाधुचरितघटादिपदानां भगवदुचरितघटादिपदस जातीयत्वेन न वाचकत्वानुपपत्तिरित्याशङ्कयाह--भगवदुचरितसजातीयत्वेति, अत्रापि दोषमाह-वेदस्थेति, भगवदुच्चरितसजातीयत्वनिवेशेनाऽस्मदाधुञ्चरितघटा दिपदानां वाचकत्वे प्राप्तेपि वेदस्थलाक्षणिकेषु शब्देषु="आदित्यो वै यूपः" इत्यादिवेदवाक्यवटकाऽऽदित्यादिशब्देष्वप्यस्मदाथुचरितेषु तादृशेच्छया भगवदुचरितसजातीयत्वसत्त्वेन वाचकत्यस्यातिव्याप्तिः स्याद् न चैतेषां वाचकत्वमिष्टं लाक्षणिकत्वस्वीकारादित्यर्थः,किं चैवं भगवदुचरितशब्दानां वाचकत्वं न स्यात्-भगवदुचारतसजातीयत्वाभावात् । दोषान्तरमाह-सादीति, सादिभूतं देवदत्ता. दिपदं भगवता देवदत्तादिव्यक्तिबोधनाय नोचरितमिति तस्य वाचकत्वं न स्याद् इष्टं च न्याय. मते तस्यापि वाचकत्वमित्यव्यातिः । सादित्वं च देवदत्तादिशब्दानामेवेष्टं न घटादिशब्दानामिति सादित्वं स्वजन्यबोधविषयतावच्छेदकधर्मावच्छिन्नविषयकबोधानुत्तरत्वं विज्ञेयं स्वं देव. दत्तादिपदं तज्जन्यो यो देवदत्तादिविषयको बोधस्तादृशबोधविषयताया अवच्छेदको धर्मो देवदत्तत्वं तदवच्छिन्न देवदत्त )विषयको यो बोधो देवदत्तपदजन्यशाब्दबोधस्तदनुत्तरत्वम् = पूर्वभावित्वं देवदत्तपदेऽस्त्येव देवदत्तपदजन्यशाब्दबोधापेक्षया देवदत्तपदस्य पूर्वभाषित्वाद् देवदत्तव्यक्तौ देवदत्तपदसंकेतानन्तरमेव देवदत्तपदजन्यशाब्दबोधसंभवात् , यद्यपि तर्कमते घटादिशब्दोपि सादिरेव तथापि न तस्य घटत्वावच्छिन्नविषयकबोधानुत्तरत्वम्-ईश्वरीयघटविषयकबोधानन्तरमेव घटादिशब्दानी जातत्वादित्यवधेयम् । ननु "द्वादशेऽहनि पिता नाम कुर्यात्' इति श्रूयते तथा चैतद्वेदवाक्यघटकं नामपदं देवदत्तादिपदपरमेवेति देवदत्तादिपदानां समान्यतो नामपदेन भगवदुचरितत्वं प्राप्तमिति न तेषु वाचकत्वाव्याप्तिरित्याशङ्याह-द्वादशेति, उत्तरमाह-देवदत्तेत्यादिस्वरूपाणामिति, स्वरूपाणाम् आनुपूर्वीगाम्, भगवता हि नामपदमेवोचारितं न तु देवदत्तादिपदमिति देवदत्तादिपदानां भगवदनुचरितत्वाद्वाचकत्वानुपपत्तिस्तदव. स्थैवेत्यर्थः । - किं च विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादीश्वरसंकेतस्य शक्तित्वे तादृशशक्तिज्ञानार्थमीश्वरज्ञानापेक्षास्ति-ईश्वरसंकेतरूपशक्तावीश्वरस्य विशेषणत्वाद् ईश्वरानङ्गीकर्तुश्च मीमांसकस्येश्वरज्ञानासंभवेन ईश्वरसंकेतरूपशक्तेरपि ज्ञानं न संभवति तथा च शाब्दबोधानुपपत्ति:शाब्दबोधं प्रति शक्तिज्ञानस्य कारणत्वादित्यभिप्रायेण दोषान्तरमाह-एवमिति ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 216