Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 190
________________ विधिशेषप्रकरणे अव्ययसंज्ञाप्रकरणम् । १८१ कृदन्तस्वादुत्पन्नानामपि सुपाम् "आम:" ( पा०सू०२-४-८१ ) इति लुग् भविष्यति । तत्र हि लेरिति नानुवर्त्तते । न चैवं तरबादेरपि लुगापत्तिः, अपरिसमाप्तार्थतया तरवाद्युत्पत्तेरेवाभावात् । अपरिसमाप्तार्थत्वं च संख्याक श्रदिविषय कोत्थिताकाङ्गत्वम् । अत एवानुप्रयोगः प्रार्थ्यते । आमन्तार्थगतप्रकर्षादिप्रतीतिस्तु अनुप्रयोग। दुत्पन्नेन तरबादिना भवि व्यति । अत एव सूत्रितं "कृञ्चानुप्रयुज्यते" (पा०सु०३-१-४०) इति । अनुशब्दो हि व्यवहितस्य विपरीतस्य च प्रयोगनिवृत्तये इति वक्ष्यते । यद्वा, पूर्वसूत्रोक्तनिष्कर्षरीत्या आमन्तात् सोरेवोत्पत्तौ हल्ङयादिलोपो भबिष्यति । अस्तु वा कृदन्तं यन्मेजन्तमिति वाक्यार्थः । आमन्तं हि प्रत्ययलक्षणेन कृदन्तं, श्रूयते च मान्तम् । न चैवं 'प्रतामौ' 'प्रताम ः ' 'लवमाचक्षाणो लौः' इत्यादावतिप्रसङ्ग इति वाच्यम्, स्वरादिषु प्रशान्शब्दस्य पाठेन धातोः प्रत्ययलक्षणेन कृदन्तत्वमुपजव्यिाव्ययसंज्ञा न भ वतीति ज्ञापितत्वात् । न च "मोनोधातोः (पा०सु०८-२-६४ ) इति नत्वे छते नैतन्मान्तमिति कथं ज्ञापकतेति वाच्यम् । नत्वस्यासिद्धत्वात् । न च “ज्ञान तेजने” (स्त्रा०३०९९५) इत्यस्यार्थान्तरवृत्तित्वे शानयतीत्यादिप्र योगसिद्ध्यर्थे चुरादित्यस्वीकारेण नित्यसन्नन्तत्वाभावात्तस्यैवायं स्वरादिषु पाठ इति वाच्यम्, अनभिधानात् तस्मात्किपोनुत्पत्तेः । अत्र च ज्ञापकत्ववर्णनपरं भाष्यमेव प्रमाणम् । अव्ययमित्यन्वर्थसंज्ञाबलादसत्त्वार्थस्य साम्यवाचिन एवं प्रशान् शब्दस्य तत्र ग्रहणं न तु शान्ति मद्वाचकस्य । तेन 'प्रशामौ' 'प्रशामः इत्युदाहरणं न विरुध्यते । स्वस्त्यादीनां तु सत्त्ववाचिनामपि पाठसामर्थ्यादव्ययत्वमिति विशेषः । अन्तग्रहणसामर्थ्यान्नित्ययोगे बहुव्रीहिराश्रीयते । तेनौपदेशिक एज् गृह्यते । नेह - 'आधये' 'चिकीर्षवे' 'कुम्भकारेभ्यः । वस्तुतस्त्वन्तग्रहणं व्यर्थम्, लक्षणप्रतिपदोक्त परिभाषयैवातिप्रसङ्गभङ्गात् । ननु वर्णग्रहणे इयं परिभाषा न प्रवर्त्तते । अन्यथा "एचोऽयवायावः " ( पा०सू०६-१७८) इत्यादावतिप्रसङ्गादिति चेत् ? न, एवमपि बहिरङ्गपरिभाषया "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य " (प०भा०८६) इति परि भाषया वेष्टसिद्धेः । अयमन्त्रार्थः - सन्निपातः संश्लेषः, तनिमित्तो यो विधिः स तद्विघातस्यानिमित्तम् । तं सन्निपातं यो विहन्ति स तद्विघातस्तस्येत्यर्थः । एवञ्च सुप्सन्निपातलक्षणस्य " घेर्डिति" (पा०सू०७-३१११) इति गुणस्य ''बहुवचने झल्येत्" (पा०सू०७-३-१०३) इत्येत्वस्य चाव्ययसंज्ञां प्रति निमित्तत्वं नेत्यवधेयम् । तथा परिभाषायाः प्रयोज नान्तराण्यपि सन्ति दिलानं तूच्यते, श्रीपं कुलं तस्मै श्रीपायत्यत्रातो

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308