Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाह्निके
श्रानियमाप्रसङ्गेन नियमकारिण्याः परिभाषाया अप्रवृत्तेश्चेति दिक् ॥ स्वं रूपं शब्दस्याशब्दसंशा ( पा०सू०१-१-६८ ) । शब्दस्य स्वं रूपं संनि शब्दशास्त्रे या संज्ञा, तां विना । " अग्नेर्दक्" ( पा०सू० ४-२ ३३) आग्नेयम् । "आङो यमहनः" (पा०सू० १-३-२८ ) आयच्छते, आ. ते । इह अग्नि आङ् यम् हन् एषामेतत्सूत्रोपात्तानां प्रयोगसम वायिनस्त एव संचिनः अशब्दसंज्ञेति किम् ? ' उपसर्गे घोः किः" (पा०सु० ३-३-९२) दाधाभ्यो यथा स्यात्, घुधाताः शब्दार्थान्मा भूत् । शब्दः शब्दशास्त्रं, तत्र संज्ञेति सप्तमीसमासः, न तु शब्दस्य संज्ञेति; 'कर्म' 'करणम्' इत्यादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः ।
२७६
स्यादेतत् । रूपग्रहणं विनापि स्वशब्देन तदेव ग्रहीष्यते, प्रतीताखुपदेशानपेक्षत्वादसाधारणत्त्वादन्तरङ्गत्वान्निषतोपस्थितिकत्वाच्च । अ थों हि प्रतीतौ सम्बन्धग्रहणमपेक्षते, साधारणश्च पर्यायैरपि प्रत्या'वनात् । बहिरङ्गश्च पदज्ञानजन्यबोधविषयत्वात् । अनियतोपस्थिति कम्धानुकरणदशायामप्रतीतेः । तत्किं रूपग्रहणेनेति चेत् १
अत्राहुः । इह शास्त्रे अथोऽपि विवक्षितो रूपवदिति ज्ञापनार्थे रूपग्रहणम् । तेन "अर्थवद्ग्रहणे नानर्थकस्य" (प० भा० ) इत्युपपन्नं भवति । तत्रोक्तचापकादर्थो ग्राह्यः, 'स्वं रूपम्' इति वचनाद्रूपं चेति सा. मर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेन 'काशे, कुशे' इत्यत्र "शे" (पा० सु०-१-१-१३) इति प्रगृह्यसंज्ञा न भवति ।
पतत्सूत्रं भाष्ये प्रत्याख्यातम् । तथाहि । आरभ्यमाणेऽपि सूत्रे पशुः, अपत्यं, देवता, प्राञ्चः, उदञ्चः, भरताः इत्यादयस्तावल्लोकवद - र्था एव गृह्यन्ते । “अग्नेर्ढक्" (पा०सु० ४-२-३३) इत्यादौ तु शब्द एव ग्रहीयते, अर्थस्य प्रत्ययेन पौर्वापर्यासम्भवात् "ङघाप्रातिपदिकात् " (पा०सु० ४-१-१ ) इत्यधिकाराच । “उपसर्गे घोः कः ? (पा०सु०३३-९२) इत्यादी तु घुधातुर्न प्रहीष्यते "दाधा घुं' (पा०सू० १-१-२०) इत्वारम्भात् । उक्कं हि
व्यवहाराय नियमः संज्ञायाः संज्ञिनि क चिव । इति ।
अर्थवग्रहणपरिभाषाऽपि वचादिसूत्रे राजिं पठित्वा पुनर्खाजिपाठात्सिद्धा, न्यायसिद्धा च । "अग्नेर्ढक्" (पा०सु०४-२-३३) इत्यादी हि शब्दविशिष्टस्यार्थस्योत्सर्गत उपस्थितौ विशेष्ये कार्यबाधाद्विशेवणीभूते शब्दे प्रवर्तमानं कार्यमुपस्थितार्थोपहिते एव, न स्वमर्थकेऽपि, अर्थस्व विशेषणविशेष्यभावव्यत्यासमात्रेणोपपत्तौ सर्वात्मना त्यागायोगात् । गौणमुख्यम्यायोऽप्येतन्मूला, गौणस्य प्रथमतोऽनुपस्थितेः । एतेन

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308