Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 307
________________ २९८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिकेमताः' । देशप्रहणेन नदी गृह्यते "नदीदेशोऽग्रामाः"(पासू०ए०२-४-७) इति पृथगुपादानाल्लिङ्गात् । प्रागादिदेशविभागीस्त्वत्थम् शरावतीनाम नदी उत्तरपूर्वाभिमुखी। तस्या दक्षिणपूर्वस्यां दिशि व्यवस्थितो देशः प्राग्देशः । उत्तरापरस्यामुदग्देशः। उक्तञ्च प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा। विदुषां शब्दसिद्धर्थ लानः पातु शरावती ॥ इति । अमरसिंहोप्याहलोकोऽयं भारतं वर्षे शरावत्यास्तु योऽवधेः। देशः प्रारदक्षिणः प्राच्यः उदीच्यः पश्चिमोत्तरः (अ०को०) इति । अमरव्याख्यातारस्तु ऐशानीतो नैर्ऋत्यां पश्चिमाधिगामिनी श रावतीति वदन्ति । उभयथाऽपि प्रागुदस्वरूपे न विवादः । वाहीकदे. शस्तु प्रागुदग्बहिर्भूतः । “बहिषष्टिलोपो यश्च(काभ्वा०) इति व्युत्पादना दिति विवरणम् । तश्चिन्त्यम् , "अव्ययात्यप्" (पा०स०४-२-१०४) ति सुत्रे "काश्यादिभ्यष्ठठिौ ” (काभ्वा०) इति वार्तिकं व्याचक्षाणेन भग वता शाकलनानो ग्रामस्यौदीच्यवाहीकोभयरूपताभ्युपगमात् । तत्रहरदत्तादिभिस्तथैवानुवादाच । तस्माद्वाहीको देशविशेष इत्येव तत्त्वम् । तथाच कर्णपर्वणि पञ्चानां सिन्धुषष्ठानामन्तरं ये समाश्रिताः। वाहीका नाम ते देशा न तत्र दिवसं वसेत् ॥ इति । एतेन धर्मबहिर्भूतत्वाद्वाहीका इत्युक्तं भवति । शतर्विपाशा इराव. ती वितस्ता चन्द्रभागेति पश्च नद्यः, सिन्धुनदस्तु षष्ठः, तन्मध्यदेशो वाहीक इति तद्वयाख्यातारः। व्युत्पत्यन्तरं तु तत्रैव दर्शितम् । वहिकश्च वहीकश्च विपाशायां पिशाचको। तयोरपत्यं वाहीका नैषा सृष्टिः प्रजापतेः ॥ इति । पतञ्च विवेचनं "वाहीकग्रामेभ्यश्च" (पासू०४-३-११७) इत्यादा. धुपयोक्ष्यत इति सर्वे सुस्थम् ॥ इति श्रीविद्वन्मुकुटरत्नस्य लक्ष्मीधरसूरेः सूनुना भट्टोजिभट्टेन कृते शब्दकौस्तुभे प्रथमाध्यायस्य प्रथमे पादे नवममान्हिकम् ॥ पादश्चायं प्रथमः समासः ॥

Loading...

Page Navigation
1 ... 305 306 307 308