Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे वृद्धसंज्ञासूत्रम्।
२६७ काव्यस्य छात्राः पैङ्गलकाण्वा इत्यत्र वृद्धाच्छः स्यात् । इम्यते तु "क ण्वादिभ्यो गोत्रे" (पासू०४-२-१११) इत्यण । सत्यम् । अत एवापरि• तोषादुक्तं वार्निककृता "गोत्रान्ताद्वासमस्तवत' (काभ्वा०) इति । शै. षिकाधिकारे "प्राग्दीव्यतोऽण्” (पासू०४-१-१८३) इत्यत्र वा इत्थ. मतिदेशः कर्तव्य इत्यर्थः । अपत्याधिकारादन्यत्वाच लौकिकगोत्रग्रह. णाद् "ओदनपाणिनीयाः" इत्यादि सिद्धयतीति भावः । किमविशेषे. ण ? नेत्याह । जिव्हाकात्यहरितकात्यवर्जम् । कतशब्दो गर्गादिः । जिव्हा चपलो, हरितवर्णश्च कात्यः । तस्य छात्रा इत्यर्थेऽणेव भवतिजैव्हाकाताः, हारितकाताः॥
त्यदादीनि च (पासू०१-१-७४)। एतानि वृद्धसंज्ञानि स्युः । त्य. दीयम् , अदसीयम् , इदमीयम् किमीयम् त्वादायनिः, मादायनिः । "उदीचां वृद्धाद्' (पासू०४-१-१५७)इति फिञ् । प्रत्ययोत्तरपदयोश्च" (पासू०५-२-९८) इति त्वमावादेशी ॥
एड्प्राचां देशे ॥ (पासु०१-१-७५) । यस्याचामादिरिति मण्डूक प्लुत्याऽनुवर्तते । एकू यस्याचामादिस्तदृद्धसंखं वा स्याहशामिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । एडिति किम् ? आहिच्छत्रः। कान्यकुब्जः। विधेयसंशासम्बन्धबलेन पृथग्विभक्त्युबारणाश्च प्रान. हणमाचार्यनिर्देशार्थम् । व्यवस्थितविभाषा चेयम् । तेन क्रोडदेवदत्तशः ब्दयोरप्रागदेशवाचिनोर्न वृद्धसंशा तेन 'कोड:' 'देवदत्तः' इत्यणेव भव. ति । प्रागदेशवाचिनस्तु देवदत्तशब्दस्य भवत्येव वृद्धसंज्ञा । ततः का. श्यादित्वादृद्धलक्षणो ठअजिठो भवतः । शैषिकेग्विति वक्तव्यम् । सैपु. रिकी, सैपुरिका । स्कौनगरिकी, स्कौनगरिका। सेपुरं स्कोनगरं च वाहीकग्रामौ । तत्र वृद्धत्वाद् "वाहीकग्रामेभ्यश्च (पासू०४-२-११७) इति ठभिठौं भवतः । शैषिकेन्विति वचनादपत्ये वृद्धलक्षणः फिल न। विकारे च "नित्यं वृद्ध" (पासू०४-६-१४४) इति मयण न । तदेवं कुणिमतं भाग्यमतं चानुसृत्य प्रागग्रहणमाचार्यनिर्देशार्थमिति व्या ख्यातम् । जयादित्यस्तु प्राचि देशे ये सन्ति ते प्राचः पुरुषास्तेषां यो देशस्तदभिधान इति व्याचख्यो । प्राचामित्यस्य च श्रूयमाणदेशविशे. षणत्वे सम्भवति अध्याहव्येन मतेनेत्यनेनान्वयो न कल्प्य इति त. स्याशयः। अस्मिन् पक्षे वाहीकग्राम 'देवदत्तः' इत्यत्र वाऽवृद्धत्वादेव उठिी न भवत इति स्पष्टम् । किन्तु 'सैपुरिकी' इत्यादिभाष्योदात्हत वचनेनैव साधनीयं स्यादिति दिक् ।
देशति किम् ? गोमती नाम प्रागदेशनदी, तत्र भवा मत्स्याः 'गौ.

Page Navigation
1 ... 304 305 306 307 308