Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे विशेषणस्य तदन्तसंक्षासूत्रम्। २९१ रदत्तप्रन्थे । युक्तं चैतत् । "रथाद्यत्" (पा० सू०४-३-१११) "तबहा ति" ( पा० सू० ४-४-७६) इति रथशब्दस्य द्विरुपादानमेतदर्थमिति भाष्येप्युक्तत्वात् । वहत्याधिकारस्थरथहलयोरुपादानसामर्थ्याल्लभ्यो हि तदन्तविधिरविशेषादुभयत्रापि स्यादेव । न चैवमिह यद्विधावित्यः सङ्गसमिति वाच्यम् , तस्योपलक्षणत्वात् । यद्वा, "रथाद्यव" (पा० सू० ४-३-१२१) इति सूत्रे रथाद्रथाङ्गे इतिवद्वोढरीत्युक्तो तत्प्रकारक्शा . दबोधस्योपपादयितुं शक्यत्वेऽपि हलग्रहणे तदुपपादनस्य वक्तुमश. क्यत्वेन हलग्रहणेन न तदन्तविधिः । अस्तु वा संख्यापूर्वपद एवेति कै. यटाशयः । “तस्मै हितम्' (पा० सु०५-१-५) इति प्रकरणे "शरी. रावयवाद्यत्" (पा० सू०५-१-६) इति सूत्रे "रथाच्च" (का.पा.) इति वार्तिकम् । तत्राप्ययं तदन्तविधिोध्यः । यत्तु तत्र कैयटो वक्ष्यति हलसीताशब्दाभ्यां साहचर्याच्चतुर्थाध्यायविहित एव यदिति तदन्तविधिमाहुरिति । तत्राहुरित्यस्वरसोद्भावनम् “असमासे निष्कादिभ्यः" इत्यसमासप्रहणेन तस्मिन्प्रकरणे विशिष्यापि तदन्तविध पिततया साहचर्याश्रयणेऽपि तदन्तविधेर्दुारस्वादित्यवधयेम् ।
सुसद्धिदिक्शब्देभ्यो जनपदस्य । सुपाञ्चालकः । सुमागधकः । सर्वपाशालकः । अर्द्धपाचालकः । “अवृद्धादपि बहुवचनविषयात" (पा० सू०४-१-१२५) इति वुञ् । “सुसर्वार्धाज्जनपदस्य" (पा० सू०७-३-१२) इत्युत्तरपदवृद्धिः । दिक्शब्दः-पूर्वपाश्चालकः । अ. परपाञ्चालकः । पूर्ववद् वुञ् । “दिशोऽमद्राणाम्” (पा० सु०७.३-२३) इत्युत्तरपदवृद्धिः।
ऋतोर्वृद्धिमद्धिधाववयवानाम् । ऋतुवाचिन: शब्दाद्यो वृद्धिमान् वद्धिनिमित्तः प्रत्ययस्ताद्वधाने अवयवानां पूर्वपदत्वे इति शेषः । तद. तविधिरिह वाचनिक एव । शरदः पूर्वो भागः पूर्वशरत् । “पूर्वापरा. धरोत्तरम्" (पा० सू०२-२-१) इत्येकदेशिसमासः। तत्र भवं पूर्वशा. रदम । “सन्धिवेलातुनक्षत्रेभ्योऽण" (पा० सू०४-३-१६)। "अवयः बाडतोः" (पा० सु०७-३-११) इत्युत्तरपदवृद्धिः । वृद्धिमदिति किम् ? "प्रावृष एण्यः" (पा० सू० ४-३-१७ ) इत्यत्र तदन्तविधिर्मा भूत् । तेन तत्र ऋत्वणेव भवति-पूर्वप्रावृषमिति । अवयवानां किम् ? पूर्वस्यां शरदि भवं पौर्वशारदिकमित्यत्राण न भवति किं तु कालानेव भव ति । वहि यथाकथञ्चित्कालवाचिनो गृह्यन्ते न तु सत्यवेत्याग्रहः, उ. तरत्र सन्धिवलातुनक्षत्रेभ्य इति विशेषणात् । अत एव सायम्प्राति. का, पौनापोनिका, इत्यादि सिद्धति ।

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308