Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 298
________________ विधिशेषप्रकरणे विशेषणस्य तदन्तसंज्ञासूत्रम् । २८९ यन्ति" ( प० भा० १६) इति । अन्-'राजा' इत्यर्थवता, 'साम्ना' इत्यनथकेन । इन्-'दण्डी' इत्यर्थवता, 'वाग्मी' इत्यनर्थकेन, अस्-'सुपयाः' इत्यर्थवता, 'सुस्रोता:' इत्यनर्थकेन । मन्-'सुशर्मा' इत्यर्थवता, 'सुप्र. थिमा, इत्यनर्थकेन । तच "इणः बाध्वम्" (पा० सु० ८-३-७८) इति सूत्रेऽजहणेनार्थवद्रहणपरिभाषाया अनित्यत्वज्ञापनासिद्धम् । 'परिवे. विषीध्वम्' इत्यत्र हि षीध्वंशब्दस्यानर्थकत्वादेवाग्रहणे सिद्धे किं तन्नि। वृत्त्यर्थनाङ्गग्रहणेनेति दिक् । सुत्रस्योदाहरणान्तराण्याह पार्तिककारःप्रयोजनं सर्वनामाव्ययसंज्ञायाम् । अन्वर्थसंशयाऽऽक्षिप्तः संही स. दिभिर्विशिष्यते इति फलितोऽर्थः। ____ उपपदविधौ भयाव्यादिग्रहणम् । भयञ्च आख्यादयश्चति बन्छः। तेन खचप्रकरणे"मेघर्तिभयेषु कृष" (पा० स०३-२-५३) इतिसूत्रे वाक्यं भिस्वा उपपदेन मेघर्ती विशेष्येते भयेन तूपपदम्। यदि तु भयाव्यशब्दयोद्वन्द्वं कृत्वा आदिशब्देन बहुवीहिः क्रियेत तदा क्षेमप्रि. यमद्रैरप्युपपदं विशेग्येत । सिद्धान्ते तु क्षमादय उपपदेन विशेष्यन्ते । भयङ्करः, अभयङ्करः । आयङ्करणं, स्वाढ्यंकरणम् । ङोपप्रतिषेधे स्वस्रादिग्रहणम् । स्वसा, परमस्वसा। अपरिमाणविस्तादिग्रहणं च । प्रतिषेधे प्रयोजनमित्यनुवर्तते। द्वि. गुना सन्निधापितमुत्तरपदं विस्तादिभिर्विशेष्यते इति भावः। द्विवि स्ता, द्विपरमबिस्ता । द्वयाचिता, द्विपरमाचिता । दितिः-दैत्यः, आ. दित्यः । “दित्यदित्यादित्य" (पा० सु०४-१-८५) इति सूत्रेऽदितिग्रहणं न कर्तव्यं, परमदित्यादिभ्यस्त्वनभिधानान्न भवतीति भावः । रोण्या अण "रोणा" (पासू० ३-२-७८ ) इति सूत्रेण चातुरर्थिकः । रौणः, आजकरोणः, सैंहकरोणः। तस्य च । तस्य चति वक्तव्यम् । उक्तानां वक्ष्यमाणानां च सर्वेषा मयं शेषः । तथाचेह सूत्रे 'स्वं रूपम्' इत्यनुवर्तते इति फलितोऽ. थः। ननु व्यपदशिवद्भावेन 'रोणः' इति सिद्धमिति चेत् ? न, “व्यप. देशिवद्भावोप्रातिपदिकेन (प० भा० ३२) इति निषेधादिति भाग्यः काराः। यद्यपि रोणीशब्दो न प्रातिपदिकं, तथाप्यतिपदिकेनत्यत्र वाक्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणास्त्रीप्रत्ययान्वैरपि व्यपदेशिवद्भावो नास्तीति भावः । यथाकश्चित्प्रातिपदिकग्रहणे लि. विशिष्टग्रहणमिति हि ड्याप्सुत्रे वक्ष्यते । ननु यदि तस्य चेत्यच्यते स्वरूपग्रहणं चानुवय॑ते, तर्हि व्यपदेशिवद्भावोऽप्रातिपदिकेन शब्द. प्रथम. 19.

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308