Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२९२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके
ठविधौ संख्यायाः। द्वे षष्टी परिमाणमस्वेति विग्रहे "तद्धितार्थ. (पा० सु०२-१-५१)इत्यनेन समासे कृते आर्हाद्" (पा० सु०६-१-१९) इति ठक् न भवति, संख्यायास्तदन्तविधौ सति संख्यान्तादपि ठक्. प्रतिषेधात् । तेन "प्राग्वतेः"(पा० स०५-९-१८) इति ठनेव भवति । "अध्यर्द्धपूर्व' (पा० सू०५-१-२८) इति लुक्तु न भवति "सोस्यांशवस्नभृतयः" (पा० सू०५-१-५६) इत्यतः सोऽस्येत्यनुवर्तमाने "तदस्य परिमाणं( पा० सु०५-१-५७ ) इत्यत्र पुनःप्रत्ययार्थस्य समर्थविभक्तेश्च निर्देशात् । पुनर्निर्देशेन हि प्रकृताल्ल्लुकसम्बद्धाद्विलक्षणमिदमिति सुच्यते । यता, अनुवर्तमानेन सोस्येत्यनेन सहितं परिमाणं संख्याया इत्येतत्तावत्प्रत्ययं विधत्ते। ततस्तस्य लुकि कृते पुनः “तदस्यपरिमाणम्' (पा० सू०५-१-५७) इति वचनसामर्थ्यात्स्वायें तजातीयः प्रत्ययः । तस्य विधानसामर्थ्यात् द्विगुनिमित्तत्वाभावाद्वा लुङ् न भविष्यति । एतच वृत्तिकारमतमाश्रित्योकम्। भाष्यकारमते तु "तमधीष्ट"(पा० स०५-१-८८) इति सूत्रण भूताथे प्रत्ययं कृत्वा "द्विषाष्टिकः" इत्यादि साध्यम्। न ात्र “अध्यर्द्ध" (पा००५-१-२८) इतिलुक् प्राप्नोति, अना. हीयत्वात् । यद्यपि "तमधीष्ट"(पा०सू०५-१-८६)इत्यत्र कालादिति वर्तते तथापि काले संख्येये वर्तमानात् षष्टिशब्दादुत्पत्तिन विरुध्यते रमणी. यादिभ्यस्त्वनभिधानान भवति । परिमाणार्थे तु लुक् दुर्वारः । तथाहि "प्राग्वतेष्ठञ्"(पा० सू०५-१-१८)इति ठञ् "तदर्हति"(पा० सू०५-१६३)इत्यतःप्राक् “तेन क्रीतम्"(पा० सू०५-१-६३)इटेयेवमाद्या येऽर्थास्तेषु भवति, अर्हत्यर्थच । ततः परेऽपि येऽर्थी वर्तयतीत्यादयः "आ. कालिकडाद्यन्तवचने"(पा० सू०५-१-११४ )इत्येवमन्तास्तेष्वपि भवति एवञ्च ठञ आहीयाना यार्थसाधारणत्वेपि परिमाणस्य तदर्हति" (पासू०५-१-६३)इत्यतः प्राङ् निर्देशात्तत्रोत्पन्नष्ठञ् आीय एव । न च तदस्येति पुनरुपादानमात्रेणापत्वमपगच्छति। न हि काको वाश्यत इत्याहीयत्वं निवर्त्तते। किञ्च, यद्यायित्वं निवर्तते, तर्हि जीवितपरिमाणादन्यत्रापि लुङ् न स्यात् । द्वौ निष्को परिमाणमस्थ द्विनिष्कः । न च "द्वित्रिपूर्वानिष्कात्" ( पा० सू०५-१-३०)इति वचः नसामर्थ्यात्स्यादिति वाच्यम् , परिमाणातिरिकेष्वाहायार्थेषु वचनस्य सावकाशत्वात् । तस्माद्यस्य षष्टिीवितपरिमाणं षष्टिमसौ भूतो भव. तीति "तमाष्टो भृत" (पा० सू०५-१-८०) इत्येव द्विषाष्टिका साधनीयः । तदस्योति तु त्यक्तन्यं सोस्येत्यनुवृत्त्यवेष्टसिद्धोरिति स्थितम् ।
धर्मानञः। “धमै चरति धार्मिकः। अधर्म चरति आधर्मिकः ।

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308