Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२९० शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहिके (पा० आ० ३२) इत्यस्य निर्विषयत्वं स्यादिति चेत ?न, "सूत्रान्ता. ठक्” (पा० सू०४-२-६० ) "दशान्ताडुः" ( पा० सू०५-२-४५) इत्यादो सावकाशत्वात् । न च तत्रान्तग्रहणसामर्थ्यादेव व्यपदेशिद्भावो न भविष्यतीति वाच्यम् "समासप्रत्ययविधौ प्रतिषेधः" (का० वा० ) इत्येतद्बाधेनान्तग्रहणस्य चरितार्थत्वात् । शापकसिद्धयं परिभाषा। पू. स्सिपूर्वादिनिरिति वक्तव्ये "पूर्वादिनिः" ( पा० सु० ५-२-८६) "स पूर्वाच्च" ( पा० सु०५-२-८७ ) इति योगविभागश्चेह झापकः । वस्तु तस्तु भयाव्यादाविव "स्त्रान्ताक" (पा० सु० ए०४-२-६० ) "दशा न्ताः " (पा० सु०५-२-४-५) इत्यादावपि विशेषणविशेष्यभावव्यत्या. समात्रेण सिद्ध अन्तग्रहणसामर्थ्यमपि सुपपादमिति परिभाषाश्रयणं व्यर्थम् । न चैव 'गोकुलम्' इत्यत्र हस्वः स्यादिति वाच्यम् , उपस. जैवं यो गोशब्दस्तदन्तस्य प्रातिपदिकस्य हस्वविधानात् । सन्निधानात प्रातिपदिकं प्रत्येव विशेषणताश्रयणात् । गोशब्दे च तदभावात् । अत एव "राजकुमारीपुत्रः" इत्यत्र न हस्वः। उपसर्जनं यत्स्त्रीप्रत्ययान्तं तदन्तस्य प्रातिपदिकस्येत्यत्रापि सन्निधानाश्रयणात् । एष एव तवापि गतिः। न युक्तपरिभाषेह सम्भवति "व्यपदेशिवद्भावोऽप्रातिपादिकेन" (५०. भा०३३) "ग्रहणवता" (प० भा०३१) इति च परिभाषाद्वयमपि प्र. त्ययविधिविषय कामति दिवउत्सुत्रे कैयटहरदत्ताभ्यामुक्तत्वात् । एवञ्च "पूर्वादिनिः" (पा० स०५-२-८७) इति योगविभागो व्यर्थः । किम्ब. हुना “पूर्वादिनिः" ( पा० सू०५-२-८७) इत्यत्र तदन्तग्रहणसम्भवात "सपूर्वाच्च" (पा०सु०५-२-८७) इति सूत्रं व्यर्थम् । व्यपदशिवगावेन सिद्धे तस्येति प्रकृतवार्तिकमपि न कर्त्तव्यम् । स्वं रूपमिति तु प्रागेव प्रत्याख्यातमिति दिक् ।।
रथसीताहलेभ्यो यद्विधौ । “तद्वहति (पा० म०४-४-७६) इति यत् । रथ्यः; परमरथ्यः। सीत्य, परमसीत्यं क्षेत्रम्। सीतयासम्मितं, सम्मतमित्यर्थः । "नौवयोधर्म" (पा००४-४-९१) इति यताह. लस्य कर्षों हल्यः "मतजनहलात्करणजल्पकर्षेषु" (पा०स० ४-४-७) इति यत । यद्विधाविति किम ? "हलसीराक्" (पा० स० ४-३-१२४) इति ठविधौ तदन्तग्रहणं मा भूदिति कैयटः । अत्रे वक्तव्यम् । “ह लसीरात्" ( पा० सू०४-३-१२४ ) इति द्विः पठ्यते "तस्येदम्" (पा० सु०४-३-१२० ) इत्याधिकारे"तद्वहति"( पा० सू०४-४-८१ इत्यधिका. रे च । तत्रोभयत्रापि तदन्तावाधरिष्ट एव । आद्यस्य प्राग्दीव्यतीय. त्वाल्लुक्-द्विहलः । अपरस्य श्रवणम्-बैहलिकः। स्पष्टं चेदं चतुर्थे ह.

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308