Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
विधिशेषप्रकरणे शब्दस्य स्वरूपबोधकसूत्रम्। २७७ "अभिव्यकपदार्था ये" इत्यपि व्याख्यातम् । तस्मान्न्यायत एव सकल. निर्वाहे सूत्रं नारम्भणीयमिति । ननूत्तरत्र चतुःसूच्यामनुवृत्तये "स्वं रूपम" (पा०स०१-१-६८) इत्यवश्यं वाच्यमेवेति चेत् ? न, अनुवृत्ते. रनावश्यकत्वात । तथाहि, अणुदित्सूत्रे तावत्स्वस्यापि स्वसाधादेव सिद्धम् । कथमन्यथा "अवात्ताम्" इत्यत्र "झरो झार" (पा००८-४६५) इति लोपः। तत्र व्यक्तिभेदात्सावय॑मिति चेत् १ इहापि बोय. बोधकम्यक्त्योर्भेदात् । तथा "तपरस्तत्कालस्य" (पा०सू० १-१-७०) इत्यत्रापि । “आदिरन्त्येन" (पासू०१-१-७१) इत्यत्राप्यादिग्रहणा. वृत्त्या सिद्धम् । आवृत्ती लिङ्गं तु "नादिचि" (पासू० ६-१-१०४) इत्यादि । “येन विधिः" (पा०स०१-१-७२) इत्यत्र तु वार्षिककारा "तस्व च" इति वक्ष्यत्येव । वस्तुतस्तु तदपि न वाच्यम्, व्यपदेशिव. बाधेनैव सिद्धेः । “अप्रातिपदिकेन" इति तु तत्रैव प्रत्याख्यास्यामः । अत एव "येनविधिस्तदाधन्तत्वे प्रयोजनम्" इत्याद्यन्तवत्सूत्रस्थं वा. सिकं समच्छते' इति दिक।
सित्तद्विशेषाणां वृक्षाद्यर्थम् । अत्र सिदित्युपलक्षणं किशिल्लिा. मासज्य इत्थं लिजा विशेषाणां संक्षेति वक्तव्यम्। तच्च लिकं वृक्षादा. बासखनीयमित्यर्थः । एवमग्रेऽपि । तेन "विभाषा वृक्षमृग" (पा०स० २-४-१२) इति सूत्रे विशेषाणामेव ग्रहणात् 'प्लक्षन्यग्रोध, प्लक्षन्य. प्रोधाः' इति सिद्यति।
पित्पर्यायवचनस्य च स्वार्थम् । चकाराद्विशेषाणां स्वरूपस्य च प्रहणम् । "स्वे पुषः" (पासु०२-४-४०) रैपोषं पुष्टः, अश्वपोषम्, स्वपोषम् ।
जित्पर्यायवचनस्यैव राजाद्यर्थम् । "सभा राजामनुष्यपूर्वा" (पा. स.२-४-२३) इनसभम् , ईश्वरसभम् । नह राजसभा, हरिश्चन्द्रस. भा। पर्यायेण यो पक्कि स हि पर्यायवचनः । न च स्वस्य स्वेन सह विकल्पः, नापि विशेषेण, सामान्यविशेषयोभिन्नप्रकारकबोधजनकत. या तुल्यार्थत्वाभावात् । तुल्यार्थास्तु विकल्पेरथिति न्यायात । इनशब्दो राजशब्दपर्याय इत्यादिव्यवहारास्तु 'भीमो भीमसेनः' इतिवत् ।।
शित् तस्य तद्विशेषाणां च मत्स्याद्यर्थम् । “पक्षिमत्स्यमृगान् हर न्ति" (पा०८४-४-३५) मासिकः, शाफरिकः । पर्यायवचनानां न अनिमिषान हन्ति । “मीनस्येष्यते" इति भाज्यम् । मैनिकः।।
मृगपक्षिणोस्तु पिचिर्देशः कर्तव्यः । तेन स्वरूपस्व पळयाणां वि. शेषाणां च प्रहणमिति पास्वावार।

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308