Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 289
________________ २८० शब्द कौस्तुभ प्रथमाध्यायप्रथमपादे नवमाहिके शानां ग्राहकोऽस्तु, अणत्वात् । अस्तु च स एव इकारादीनामपि ग्राहक, "मादिरन्त्येन" (पा०सु० १-१-७१) इत्युक्तेः, ईकारादयस्तु कथं प्राह्याः ? न हि तद्वाचकः शब्दस्तस्मिन्सूत्रे उपात्तोऽस्ति । नन्वक्शब्देन इकाराद मोऽप्युपस्थिता इति चेतर्हि वाक्यार्थे ते नयन्तु नाम, पदार्थ संसर्गस्य वाक्यार्थत्वात् । न तु तेऽपि स्वार्थोपस्थापकाः, अनुच्चारितत्वादित्युक्तम् । अत एव 'ऋचं वेत्ति' इत्यादौ शब्दविशेषं वेन्तीत्येवार्थो न तु तदर्थे चीति । तदुकं वार्त्तिकहता "तत्र प्रत्याहारग्रहणे सवर्णाग्रहणमनुपदेशात् । हस्वसम्प्रत्ययादिति चेदुच्चार्यमाणसम्प्रत्यायकत्वाच्छन्द स्यावचनम्" इति । शब्दस्य प्रतीयमानस्य : अवचनम् अर्थाप्रतिपादकत्वमित्यर्थः । अत्रोच्यते । प्रत्याहारग्रहणे सर्वत्र स्वषाच्यवाच्ये निरूढा लक्षणा "दीघांजसिच" (पा०सु०६-१-१०५) इति ज्ञापकात् । "प्रथमयोः पूर्वसवर्णः” (पा०सु० ६-१-१०२ ) इत्यत्र हि अक इत्यनुवर्त्तते । न चाक्शब्दवाच्यो दीर्घोऽस्ति, योऽस्य निषेधस्य विषयः स्यात् । नन्वाकारोऽस्तीति चेत् ? न, “नादिचि” (पा०सू० ६-१-१०४) इत्यनेनैव तत्र निषेधसिद्धेः । "व्वादीनाम" (पा०सु० ७-३-८०) इत्यादिनिर्देशा अपीह लिङ्गम् । नन्वेवम् "इको यणचि” (पा०सु० ६-१-७७) इति सूत्रे ईदातोर्ग्रहणं न स्यात्, युगपदृत्तिद्रयविरोधात् । तथा च 'सुध्युपास्यः' 'दध्यानय' इत्यादि न सिद्ध्येदिति चेत् ? न, सति तात्पर्ये युगपद्वृत्तिद्वयस्य स्वीकारे बाधकाभावात् । इह च "आपनद्याः" (पा०सू० ७-३ - ११२ ) इत्यादिनिर्देशानां तात्पर्यग्राहकत्वात् । यदि तु प्राचां मते श्रद्धावशाद्युगपद्वृत्तिद्वयं नाम्युपैंषि, तहह ईदातोरपि इगच्छन्द वोर्लक्षणैवास्तु । स्ववाच्यस्ववाच्य त्वाविशेषात् । स्ववाच्यतापि परमस्तत्यिन्यदेतत् । नन्वेवमपि 'शरीरम्' इत्यादौ शकारस्य स्थानसाम्याद्यकारादेशः प्राप्नोति, इकारवाच्यो हि दीर्घः तत्सवर्णश्च शकार इति तस्यापग्रहणेन ग्रहणांत । तथा 'शीतलम्' इत्यादावपि यण्प्रलङ्गा, 'दीर्घः परं न भवति, अक्शब्दवाच्यवाच्यतायाः दीर्घे विश्रान्त्या तत्सम्बन्धग्रहे मानाभावादिति । अश्रोच्यते । भवेदयं शकारस्य यकारादेशरूपो दोषः । यदि स्ववांव्यसवर्णे लक्षणां वदाम । वयन्तु स्ववाच्यवाच्ये सत्येव ब्रूमः । न च ईकारः शकारस्य वाचकः, दीर्घाणामनणूत्वेन सवर्णाग्राहकताया असदावोदितत्वात् । भाष्यमते स्वज्झलोः सावर्ण्यमेव नास्तीत्युक्तम् । वर्षार्षमिष्ट निर्गलितोऽर्थः । अकारोऽष्टादशानां संज्ञा । एवमिदुतौ ।

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308