Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 295
________________ २८६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादे नवमाहि केस्वीकारात् । अत एव "प्रयाजशेषेण हवींष्यभिघारयति" इत्यत्र प्रया. जशेषं हविष्युक्षारयेदिति मीमांसका व्याचख्युरिति दिक् । न च "ए. रच" (पा० नु० ३-३-५६) इत्यादाविकारादीनां पारतन्त्र्यं धावा. दीनां च स्वातन्यं वास्यादानामिव तक्षादीनामिव च स्वरूपतः सम्भ. वति, किंतु वैवक्षिकम् । तेन विशेषणमप्रधानं तशात्मान्तस्य विशे. प्यस्य संक्षेति फलितम् । विशेष्यसन्निधौ च विशेषणत्वं भवति । सन्निधिस्तु क्वचित्साक्षा. निर्देशेन, यथा "ईदृदेद् द्विवचनम्प्रगृह्यम्" (पा००१-१-११) इति द्वि. वचनस्य, कचिच्छदाधिकारात्, यथा “एरच"(पा०सू०३-३-५६) इत्यत्र धातोः, क्वचिदाक्षेपाद्यथा "इको झल" (पा० सु०१-२-९) इ. त्यत्र सना धातोः । "इको यणचि" ( पा० सु०६-१-७७) "एचोs यवायावः" ( पासु०६-१-७८ ) इत्यादौ त न कथञ्चिदपि विशेष्यस निधिः । अतो नेदं प्रवर्तते । __ स्यादेतत् । "उदोष्ठयपूर्वस्य" ( पा० सू० ७-१-१०२) इत्यत्र ओ. ठयपूर्वकत्वं धातोरेव विशेषणं स्थान तु ऋकारस्य । स(१) हि विशे पणत्वादन्तस्य संज्ञा। संज्ञा च संक्षिनं प्रत्याययक्ति,नतु स्वयं विशेष णादियोगमनुभवति । ततश्च 'सोर्णम्' इत्यादापतिव्याप्तिः, 'पृतम्' इत्यादावव्याप्तिश्च । एवम् "उतश्च प्रत्ययात्" ( पा० सू० ६-४-१०६ ) इत्यत्राप्यसयोगपूर्वत्वमङ्गस्य प्रत्ययस्य वा विशेषणं स्यान्न तुकारान्त. स्य । ततश्च 'अश्नुहि' इत्यादावतिव्याप्तिः । विशेषणं च यद्यतस्य, तदा 'तक्ष्णुहि' इत्यादावतिव्याप्तिः । अथ प्रत्ययस्य, तर्हि 'तक्ष्णुहि' इत्यादि सिद्धद्यतु, 'अश्नुहि' इत्यादौ तु दोष एवेति । अत्राहुः । गुगप्रधानभावसापेक्षेयं संज्ञा । तथाच "उतश्च प्रत्य. यात्" ( पा० सू० ६-४-१०६ ) इत्यादौ विशेषणसम्बन्धवेलायां गुण. भावास्फुरणात्तनुभूय पश्चाद्वशेष्यप्लम्बन्धे विशिष्टा संज्ञा भवति । इह हि विशिष्टस्य वैशिष्टयम्, न तु विशेष्ये विशेषणमिति, व्याख्या. नात् । अत एव न विशिष्टे वैशिष्टयं नाप्येकत्र द्वयमिति दिक् । तथाच वार्तिकम्-"येन विधिस्तदन्तस्येति चेत् ? ग्रहणोपाधीनां तदन्तोपाधि ताप्रसङ्गः। सिद्धं तु विशेषणविशेष्ययोर्यथेष्टत्वात्" इति । ग्रहणोपाधीनां गृह्यमाणविशेषणत्वेन सम्मतानामोष्ठयपूर्ववादीनामित्यर्थः । यथेष्टत्वा दित्यनेनेदं दर्शयति-चतुर्विधेषु विशिष्टवैशिष्टयबोधेषु मध्ये विशिष्टस्य वैशिष्ट्यमेवेह सम्मतं न वितरत्रिकं व्याख्यानाल्लक्ष्यानुरोधात । (१)कारः।

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308