Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 292
________________ -विधिशेषप्रकरणे अणादिसंज्ञा साधक सूत्रम् । २८३ · राधस' इत्यादावन्तोदात्तश्रवणात् । तस्माद् “इटोत्" ( ३-४-१०६) " इत्यत्रापि मुख सुखार्थस्तकारः । एत ईद्बहुवचने " ( पा०सु०८-२-८१) "उर्ऋत्" (पा०सु०७-४-६) इत्यादिष्वप्येवमेवेति दिक् । वस्तुतस्तु "दिव औत्" ( पा०सु० ७-१-८४ ) इत्यत्राप्येवमेव, हलः स्रंसनधर्मिणोऽनुदात्ते कृते "उदात्तस्वरितयोर्यणः" (पा० सू० ८-२ - ४ ) इत्येव स्वरितासिद्धेः। स्यादेतत् । द्रुता मध्यमा विलम्बिता चेति तिस्रो वृत्तयः । तदुक्तम्अ (१)भ्यासार्थे द्रुता वृत्तिः प्रयोगार्थे तु मध्यमा । शिष्याणां तूपदेशार्थं वृत्तिरिष्टा विलम्बिता ॥ इति । ताश्व क्रमेण त्रिभागाधिकाः । तथाहि, द्रुतवृत्त्या यस्याम् ऋचि पठ्यमानायां नव पानीयपलानि स्त्रवन्ति तस्यामेव ऋचि मध्यप्रवृत्त्य । पठ्यमानायां द्वादश, विलम्बितायान्तु षोडश । एवं स्थिते यदि सुत्रकृद्विलम्बितायां तपरकरणमकार्षीन्मध्यमायां द्रुतायां वा तर्हि वृत्यन्तरेण पाठकाले "अतो मिस ऐस्" (पा० सू० ७-१-९) न स्यात्, कालावधारणेन दीर्घप्लुतयोरिव वृत्यन्तरस्यापि वारणादिति । तथा च वार्त्तिकम् - " द्रुताया तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात्” इति । अत एव निपातनान्मध्यशब्दे ह्रस्व इति संहितासं• शास्त्रे कैयटः । अत्र सिद्धान्तवार्तिककारा एवमाहुः - 'सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराचिरवचनाद् वृत्तयो विशेष्यन्ते' इति । अस्यार्थः- इय अकीभूतो ध्वनिर्यद्यपि बहुकालानुवर्त्ती, तथापि कश्चिन्मात्रापर्य्यन्त. मेवाभिव्यनक्ति, तदुत्तरकालोपहितस्तु स्वयमेवानुवर्त्तते न तु परम भिव्यनाक्ते । यद्वा, ह्रस्वस्थ व्यञ्जको ध्वनिर्वृत्तित्रयेऽपि मात्राकाल एव । मध्यमविलम्बितयोः प्रथमगृहीतध्वन्यनुनिष्पादिना ततो न्यून. कालेन ध्वन्यन्तरेणाभिव्यकयन्तरं जन्यते, अभिव्यङ्ग्यस्तु न भिद्यते । एवं दीर्घव्यञ्जकोऽपि सर्वत्राऽऽद्यो ध्वनिर्द्विमात्र एव । अनु निष्पादी ततो न्यून इत्याद्यूाम् । व्यङ्गयास्तु स्वत एव परस्पर विलक्षणाः । एतच सर्वे कैयटेन ध्वनितम् तु तस्मादुच्चारणं तेषां मात्राकालं प्रतीयते । द्विमात्रं वा त्रिमात्रं वा न वर्णो मात्रिकः स्वयम् ॥ इति । शब्दान्तराधिकरणस्थराणककारोक्तिस्तु कथं नेयेति सूरिभिखिस्यम् । वर्णास्तु नित्या एव । वर्णोत्पत्तिपक्षे तु तदनुनिष्पादी दूरा (१) अयमेव श्लोको द्वितीयान्तराया इष्टेत्यस्य स्थाने च 'कुर्यादू' इति पाठस्तरेण पठित ऋक्प्रातिशाखों (पटल १४ सू० ४९ )

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308