Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभप्रथमाध्याय प्रथमपादे नवमाहिके
ते । यदि चास्यामवस्थायां "तस्मिन्" ( पा०सु० १-१-६६ ) इति परि० भाषोपतिष्ठत तदा नन्दमानादौ चानशो डिवाल्लोपः प्रवर्त्तेत । इनमः शित्करणं चानर्थकं स्यात् । तद्धि शिश्वात्सार्वधातुकतया ङितमि ममेवाश्रित्य 'हिनस्ति' इत्यत्र नलोपे क्रियमाणे सार्थकं न त्वन्यथा । नम्बार्द्धधातुकसंज्ञानिवृत्त्या शिवं सार्थकम् । तस्यां हि सत्याम् 'अनक्ति' 'भनक्ति' इत्यत्रातो लोपः स्यात्, 'रुणद्धि' 'भिनत्ति' इत्यत्र गुणः स्यात्, 'तृणेढि' इतीडागमः स्यात्, "नेड् वशि" (पा०सु०७-२-८) इति तु न प्रवर्त्तते अकृत्वादिति चेत् ? न, इनमः पूर्वभागस्यानङ्गतयो कविधीनामप्राप्तेः । कथमनङ्गतेति चेत् ? इत्थम्, प्रत्ययविधौ यत्पञ्चमीनिर्दिष्टं वातोः प्रातिपदिकादित्यादि, तदादि, तस्मिन्प्रत्यये परतो. ऽङ्गमिति हि सुत्रार्थः । इह तु यत्पञ्चमीनिर्दिष्टं 'रुधादिभ्यः' इति, नास्मात्प्रत्ययः परः । यस्माश्च परः पूर्वभागान्नासौ तस्मिन्विधीयमाने पञ्चमीनिर्दिष्टः । अत एव 'भनक्ति' इत्यादौ "अतो दीर्घो यञि" (are सू० ७-३ - १०१) इति न प्रवर्त्तते । न च "श्न सोरल्लोपः" (पा०सु० ६-४-१११) इत्यत्र विशेषणार्थे शित्करणं स्यादिति वाच्यम्, 'नसो. रलोपः' इत्युक्तेऽपि दोषाभावात् । नन्वेवं नान्तास्योर्ग्रहणं स्यात् । तथाच कनेर्यङ्लुकि 'चङ्कान्तः' इत्यत्रापि स्यादिति चेत् ? न, सि. द्वान्तेपि श्रनप्रत्ययसान्तयोर्ग्रहणापत्तौ ' वस्तः' इत्यादावतिप्रसङ्गसाम्यात् । साहचर्यात्प्रत्ययधात्वोर्ग्रहणमिति तु तुल्यम् । ननु "नसोर • ल्लोपः" इत्युच्यमाने यत्र नप्रत्ययस्य ङ्कित्यानन्तर्य तत्रैव भवि. यति 'यत्न इवाचरतः यत्नतः, पामनतः' इति ? मैवम्, अनुवर्तमानेन सार्वधातुकग्रहणेन प्रत्ययो विशेष्यते । तथाच विध्यसंस्पर्शा निर्दिष्टपरिभाषानुपस्थितौ निमित्तसप्तमी । तरी 'कनिमित्तस्य नप्रत्ययस्यास्तंश्चाल्लोपः ङ्कित्यनन्तरे इति । ननु च उत्सार्वधातुके " (पा०सू०६-४-११०) इति सूत्रे सार्वधातुकग्रहणं प्रत्याख्यातमिति चे १ न, सति शित्त्वे प्रत्याख्यानात् । तदेवं इनमः शित्वकरणसामर्थ्यात् ङितीति सत्सप्तम्यामपि परिभाषा नोपतिष्ठते इति स्थितम् । पूर्वपक्षत्वादनास्थया तथोक्तमिति वा वर्णनीयम् ।
२७४
इद्द सूत्रद्वये षष्ठीप्रक्लृप्तिपक्षोऽपि भाष्ये स्थितः । तथाहि " बष्ठी स्थानेयोगा" (पा०सु० १-१-४९) इति सूत्रात्षष्ठीत्यनुवर्त्तमे । सप्तस्वर्थनिर्देशे पूर्वस्याव्यवहितस्य षष्ठी स्यात् पञ्चम्यर्थनिर्देश उत्तरस्पाव्यवहितस्य षष्ठी स्यादिति । तत्र "इको यणचि" (पा०सू० ६-१७७) इत्यादी सूत्रे एव षष्ठीभ्रवणात्तां षष्ठीमनूय पूर्वस्यानन्तरस्यैषा न

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308