Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 234
________________ विधिशेषप्रकरणेऽतिदेशसूत्रम् । २२५ भवति । पूर्वविधाविति किम् ? नैधेयः। निपूर्वाद्धाम "उपसर्गे घोः किः” (पा०स०३-३-९.२) आतो लोपः । “यचः" (पासू०४-१-१२१) "इतश्चानिनः' ( पा०सू०४-१-१२२ ) इति ढक् । आकारलोपस्य स्था. निवत्त्वे तु सति व्यकत्वव्यपदेशेन द्यकत्वं विरुद्धत्वाद्वाध्येत । नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते । नन्वेवमपि विधिग्रहणं मास्तु पूर्वस्येति षष्ठया कार्ये कर्तव्ये इत्यर्थस्याक्षेप्तुं शक्यत्वादिति चेत् ? न, पूर्वस्य विधिः पूर्वस्माद्विधिरिति समासद्वयताभार्थ विधिग्रहणम् । पञ्चमीस मासे उदाहरणं तु 'तन्वन्ति' इत्युक्तमेव ।। ___स्यादेतत, यदि पञ्चमीसमासोऽपीष्टस्तर्हि 'विगणय्य' इत्यादि न सिध्यति "ल्यपि लघुपूर्वात्" (पा०सू०६-४-५६ ) इत्ययादेशे कर्तः व्येऽल्लोपस्य स्थानिवद्भावात् । न चारम्भसामर्थ्यम् 'अनुगमय्य' इत्यादौ मित्सु चरितार्थत्वात् । अत्रोच्यते । पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यम् "निष्ठायां सेटि' (पासू०६-४-५२) इति ज्ञापकात् । तथाहि । तत्र सेटीति पदं न तावदनिडव्यावृत्त्यर्थ णिजन्तात्तदसम्भवात् । ननु 'संक्ष. पितः पशुः' इत्यत्र “यस्य विभाषा" ( पा०सू०७-२-१५ ) इतीनिषेधः सम्भवत्येव । “सनीवन्त" (पा० नु०७-२-४९) इति विकल्पितेटकत्वा. दिति चेत् ?."यस्य विभाषा" ( पा०सू०७-२-१) इत्यत्रैकाच इत्यनु वृत्तेः । अन्यथा 'दरिद्रितः' इतीण्न स्यात् । तस्मात्कालावधारणार्थ से ग्रहणम् । इटि कृते णिलोपो न तु ततः प्रागिति । अन्यथा 'कारितम' इत्यादौ णिलोपे कृते "एकाच उपदेशे" (पा० सु०७-२-१०) इतीग्नि. षेधः स्यादिति सेटीति वदतो भावः । पूर्वस्माद्विधौ स्थानिवस्वे तु न प्राप्त एव निषेधः, णिचा व्यवधानात् । तस्मात्सेट्ग्रहणमनित्यतां ज्ञाप. यतीति स्थितम । तथा चाष्टमे "अन्त::' (पा० सू०८-४-२०) इति सुत्रे हरदत्तः-"अनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः "निष्ठायां सेटिं" (पा० सू०६-४-५२) इति सेट्ग्रहणात् । एतच्च स्थानिवद्भावप्रकरणे एव व्याख्यातम्" इति । यद्यपीह प्रकरणे स्वयं न व्याख्यातं तथापि न्यास. कारादिभिर्व्याख्यातामिति तद्रन्थस्यार्थः । लेखकप्रमादान्थभ्रंशो वा कल्प्यः । एतेन "ओः पुयण" (पा• सू० ७-४-८०) इति सूत्रे यदत्र वक्त. व्यं तद् "द्विर्वचनेचि" (पा० सू० १-१-५५) इत्यत्रैवोक्तमित्यपि हरद. त्तग्रन्थो व्याख्यातः । तथाच वस्वेकाच्सूत्रे कैयट:-पूर्वस्मादपि विधा. वित्येतदनित्यमिति । माधवाचार्यास्तु 'परिवढय्य गतः' इत्यत्रासिद्धता. मुद्भाव्य व्याश्रयत्वात्तां परिहत्य पूर्वस्मादपीति स्थानिवत्वमाशझा 'प्रबेभिदय्य' 'प्रस्तनय्य' इत्यादिभाष्योदाहरणबलेन समादधुः । यदा शब्द. प्रथम. 15.

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308