Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 274
________________ विधिशेषप्रकरणे प्रत्ययलक्षणनिषेधसूत्रम् । २६५ (८-१-१७)इत्यधिकृत्य विहितः"तिङतिङः"(पासू०८-१-२८)इति निः घातः। अत्र हि दधि इत्यस्य पदसंज्ञार्थ प्रत्ययलक्षणमपेक्ष्यते । तथा 'इह तिष्ठ' इत्यादौ तिङन्तत्वलाभायापि । नन्वेवं 'सर्वस्तोमोऽतिरात्रः' इत्यत्र "सर्वस्य सुपि" (पासू०६-१-१६१) इत्यायुदात्तत्वं न स्यात् । तथा 'स. पिरागच्छ' 'सप्तागच्छत' इत्यत्र "आमन्त्रितस्य च" (पा०सू०६-१-१९८) इति षाष्ठमायुदात्तत्वं न स्यात् । तथा'मा हि दाता, मा हि धाताम्' इत्यत्र "आदिः सिचोऽन्यतरस्याम्" (पा०सु०६-१-१८७)इत्याधुदात्तत्वं न स्यादित्यत आह सर्वेत्यादि । इदं स्वरत्रयं विहाय स्वरान्तरे प्रतिषेध इत्यर्थः । न च 'सर्वस्तोमः' इत्यत्र "बहुव्रीहौ प्रकृत्या पूर्वपदम्" (पासु०६-२-१) इति पदवयस्वरोऽयमिति वाच्यम् "सर्वस्य सुपि" (पा०स०६-१-१९१) इति यदाधुदात्तत्वं तस्यैव ह्यनेन प्रकृतिभावमात्रं कर्तव्यम्, तथा च तत्प्राप्तिरवश्यापपादयितव्येति भावात । न च सर्पिशब्दस्यामन्त्रितः स्वरं विनाऽप्याधुदात्तता लब्धं शक्या "अर्चिशुचिहुसृपिछादिछर्दि: भ्यः" (उ०सू०२७३)इत्यौणादिके इसि प्रत्यये कृतेऽन्तोदात्तत्वात् । अव्युः स्पत्तिपक्षेऽपि फिट्स्वरेण तथात्वात् । न च "नविषयस्य" (फि०सू०२६) इत्याद्यदासः 'अनिसन्तस्य' इति पर्युदासात । कैयटेन तु सर्पिःशब्द. स्य घृतादित्वं किमर्थ कल्पितमिति चिन्त्यम् । ननु सप्तशब्दः "सप्य. शूभ्यां तु च" (उ०सू०१६३) इति कनिनन्तो व्युत्पादितः। तथाच नित्त्वात् आधुदात्तः, अव्युत्पत्तिपक्षेऽपि तथैव "ब्रः संख्यायाः" (फिसू०२८) इति वचनादिति चेत ? न, उभयथाऽपि घृतादित्वे. नान्तोदात्तत्वात् । तथा च प्रयुज्यते "लप्त युञ्जन्ति रथमेकचकम्" इति । इह सिज्लुग्ग्रहणं माऽस्तु । "गातिस्था" (पा०सू०२-४-७७) इत्यत्र सिग्रहणसामर्थ्याल्लुकि स्वरः सिद्धः । अन्यथा हि लाघवार्थ च्लेरेव लुकं विदध्याता एवं हि 'अभूत्' 'अपात्' इत्यादिसिद्धये "अस्तिसि. चोऽपृक्त' (पा००७-३-९६) इत्यत्र सकारान्तरप्रश्लेषक्लेशोऽपि नाश्र. यणीय इति । न चैवं च्लेलुकि "आतः" (पासु०३-४-११०) इति सूत्र विध्यर्थमेव स्यान तु नियमार्थम् , तथाच तत्र लनिवृत्तये लिलुकीति वक्तव्यं स्यादिति विपरीतगौरवापत्तिरिति वाच्यम् ? ङित इत्यनुवृत्त्यैव लटो व्युदस्तत्वात् । तस्मात्सर्वामन्त्रितस्वरवर्जमित्येवावश्यकम । वार्तिकारम्भस्य प्रयोजनमाह-प्रयोजनमिति । प्रिनिशब्दयोरिकार उ. चारणार्थ: "सुतिथो" (पा०स०३-४-१०७) इतिवत् । एते स्वरा निवः य॑मानतया प्रयोजनमित्यर्थः। प्रयोजनान्तरमाह-पथिमथोरिति । तदेवं वचनबलेन त्रिसूच्या अतिव्याप्तिरुद्धर्तव्येतीह सूत्रे स्थितम ।

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308