Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 252
________________ विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् । २४३ कार इति वाच्यम्, ङीबुत्पत्तेः प्रागेव समास इति द्वितीये वक्ष्यमाणत्वात् । एवं स्थिते तक्षयतेः क्विपि 'तक्' रक्षयतेस्तु 'रक्' इत्यादि. बोध्यम् । अत्र हि संयोगादिलोपे कर्त्तव्ये णिलोपस्य स्थानिवद्भावान्न तत्प्रवृत्तिः । संयोगान्तलोपे तु स्थानिवद्भावनिषेधाद्भवत्येवासौ । 'गोरट्' इति तु शु (१) द्धात्विपि बोध्यम् । यत्तु " अचः परस्मिन् " ( पा० सू०१-१-५७) इति सूत्रे 'दध्यत्र' इति भाष्यमुपादाय कैयटेनोकम् - "पूर्वत्रासिद्धे वेत्येतदत्र नास्ति, तस्य दोष इत्येव संयोगादिलोपस्य संयोगोपलक्षितलोपोपलक्षणत्वात्" इति । तन्न वास्तवम् । किन्तु त ऋत्यपूर्वपक्षिणोऽभिप्रायवर्णनमात्रम् । अत एव "नपदान्त" ( पा०सु० १-१-५८) इति सूत्रशेषे तेनैवोकम् - "स्कन्दयतेः 'स्कन्' तक्षयतेः तक्” इति । यत्तु “सिद्धकाण्डे श्चुत्वं घुट्त्वे" इति वार्त्तिकव्याख्याव• सरे कैयटेनोक्तम् - "मधुगितीध्यते, मधुडिति प्राप्नोति" इति । तन्तु सकारोपदेशसामर्थ्यादिति बोध्यम् । 'सन् श्रोतति' इत्यत्र “शि तुक्" (पा०सु०८ - ३-३१) इत्यस्याप्रवृत्या सकारश्चरितार्थ इति चेत्तर्हि "कौ. लुप्तम्” इति समाधेयम् | "कुस्मनाम्नोवा" (ग०सु० ) इत्यत्र 'कू' इति माधवोदात्तं सम्यगेव तत्र सामर्थ्यविरहेण संयोगादिलोपाप्रवृत्तेः रिति दिक् । स्यादेतत् । इह संयोगादिग्रहणं मास्तु । न चैवं 'वाक्यर्थम्' इत्यादौ "स्को: " ( पा०सु०८-२-२९) इति लोपपत्तिः । “स्कोः संयोग" (पा०सू०८-२-२९) इत्यत्र "झलो झलि" (पा०सु०८-२-२६) इत्यतो झल इत्यनुवर्तते । तच्चोपसर्जनस्यापि संयोगेत्यस्य विशेषणम्, न तु प्रधा• नयोरपि स्कोः, अव्यभिचारात् । ततश्च झलन्तो यः संयोगस्तदाद्योः स्कोर्लोपः स्यादिति सूत्रार्थात्, बहिरङ्गतया यणोऽसिद्धत्वाद्वा । अत एव हि 'दध्यत्र' इत्यादौ संयोगान्तलोपो न प्रवर्तते । तथा चामे वा र्तिकम् - न वा झलो लोगद्बहिरङ्गलक्षणत्वाद्वेति । न चैवमपि 'काष्ठ तक्' 'राष्ट्ररक्' इत्यादि न सिध्यति वाच्यम्, अनभिधानात्तत्र क्वि· प एव दुर्लभत्वात् । अनभिवा "काष्ठशगेव नास्ति" इत्याप्रमिक• भाष्यबलेन न्यायसाम्यान्निर्णीयते इति । अत्रोच्यते । कुस्मयतेः 'कूः' इत्यादिसिद्धये संयोगादीति वाच्य• मेव । किञ्च 'तक्' 'रक्' इत्याद्यर्थमपि वक्तव्यम् । न चानभिधानम्, प्रमाणाभावात् कैयटादिभिरुदाहृतत्वाच्च । न च काष्ठशगेव नास्तीति 1 (१) णिज्रहितात् केवलादितियावत् ।

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308