Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 254
________________ २४५ विधिशेषप्रकरणे स्थानिवद्भावनिषेधसूत्रम् । भाग्ये एव । तस्मादिह लत्वग्रहणं कर्त्तव्यमेवेति स्थितम् । णत्वग्रहणं तु व्यर्थम् । तथाहि, 'माषवपनी' इति तावहिरङ्गपरिभाषयाऽपि सिद्धम् । न च 'प्रहिणोति' 'प्रमीणीते' इत्यादिसिद्धये तदिति वाच्यम् "अचः परस्मिन्" (पासू०१-१-५७) इति सूत्रस्य प्र. वृत्ति विनाप्येकदेशविकृतस्यानन्यतया "हिनुमाना' (पा०सु०८-४-१५) इत्यस्य प्रवृत्तिसम्भवात् । न च "हणान्ता षट्" (पा००१-१-२४) इति सूत्र वर्णितरीत्या 'प्रियाप्टनः' इत्यादिसिद्धये णत्वग्रहणमिति वा. च्यम् , कार्यकालपक्षे बहिरङ्गपरिभाषयैव तस्यापि सिद्धः । यथोद्देश. पक्षस्तु न ग्रहीयते प्रत्याख्येयेन णत्वेन सह फलसाम्यार्थम् । एतेन 'प्रियाप्टणः' इति णत्वाभ्युपगमपरः पदमञ्जरीग्रन्थोऽप्यपास्तः। बहि. रङ्कपरिभाषाया अनित्यत्वेपीह तदप्रवृत्ती प्रमाणामावात । तस्मादिह णत्वग्रहणं वृथेति स्थितम् । प्रत्युत णत्वे स्थानिवत्त्वाभ्युपगमे बाधकम. प्यस्ति । तथाहि-"अनितेरन्तः" (पा०सू०८-४-१९) इति सूत्रे "अन्तः" (पासू०८-४-२०) इति योगं विभज्य 'हे प्राण' इति रूपसिद्धये "पदान्त. स्य (पा०सु०८-४-३७) इति प्रतिषेधं बाधितुम् “अन्तः' (पासु०८४-२०) इति सूत्रण पदान्तस्यानितेर्णत्वं विधीयते इत्येका व्याख्या । अ. न्तशब्दं समर्मापपर्यायमाश्रित्य निमित्तसमीपस्थो योऽनितेनकारस्तस्य णत्वं, निमित्तसमीपस्थस्यानियों नकारस्तस्य णत्वमिति च योगवि. भागं विनापि व्याख्यानद्वयं भाज्ये स्थितम् । तत्र प्रथमपक्षे "प्राणिति" इत्यादावेकेनाऽऽकारेण व्यवधानेऽपि वचनसामथ्याण्णत्वं प्रवर्तते । द्वितीयपक्षे त्वेकादेशस्यादिवद्भावाद्रेफादव्यवहितस्यानितेः सम्भवाप्रवर्तते । 'पर्यनिति' इत्यत्र तु वर्णद्वयेनैकेन च व्यवायात्पक्षद्वयेऽपि णत्वं न प्रवर्तते इति स्पष्टमष्टमे । यदि चेह णत्वग्रहणं क्रियते तहि 'पर्यनिति' इतिवत् 'प्राणिति' इत्यत्रापि द्वयेन केन वा वर्णेन यथासम्भ. वं व्यवधानाण्णत्वं न स्यात् । न च वचनसामर्थ्यात्स्थानिवद्भावकृतं व्यवधानमाश्रयिष्यते 'वृत्रघ्नः' इति कुत्व इवेति वाच्यम् 'निरणिति' 'दुरणिति' इत्यत्र चरितार्थत्वात् । न चैवं “निर्दुरोरनितेः" इत्येव ब्र. यात , न तु "अनितेरन्तः" इति सामान्यलक्षणं प्रणयेदिति वाच्यम्, मावृत्तिमाश्रित्य 'हे प्राण्' इत्यत्र णत्वस्य प्रतिप्रसवार्थ निर्दुरोरित्यपे. झया 'अन्तः' इत्युक्तावक्षरलाघवानुरोधाच्च सामान्य लक्षणप्रणयमस: म्भवात् । तस्मादामिकभाष्यपालोचनेनेह णत्वग्रहणं न कर्तव्यमिति निर्णीयते । मत एष 'व्यूढोरस्केन' इत्यत्र गत्वं न । अन्यथा विसर्ग.. स्याट्त्वेन तदादेशस्य सस्य स्थानिवद्रावाण्णत्वं स्यावास पत्वप्रहः

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308