Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 266
________________ विधिशेषप्रकरणे लुगादिसंज्ञासूत्रम् । मणी:' इत्यादावणकार्ये न भवति । तथाच भाष्यरीत्या 'संहितावसानयोर्लोक सिद्धत्वात्' इति वक्ष्यमाणन्यायेनेदं सूत्रं मास्त्विति चेत् ? न, 'घटङ्करोति' 'जामे तिष्ठति' इत्यादी "ल्यब्लोपे" (का०वा० ) इति पञ्चम्यापत्तेः' "अग्निमीळे" (क्र०सं०१-१-१-१) इत्यादी "चादिलोपे" इति निघातप्रतिषेधापत्तेश्च । आरब्धे तु सुत्रे तत्र शास्त्रतो लोकतो वा दयपश्चादीनां चाप्रसक्तत्वानोक्तदोषः । ननु वार्त्तिकमते प्रसक्तस्येत्युक्तंSपि 'ग्रामणीः' इत्यत्र वृद्धिः स्यात् कर्मण्यणः प्रसङ्गसत्वादिति चेत् ? न, वासरूपन्यायेन पक्षेणः सम्भवेऽपि विपक्षे तेनाण्प्रसङ्गस्य बाधितत्वात् । वैकल्पिकयोरेकानुष्ठाने तस्मिन्प्रयोगे इतरानुष्ठापकशास्त्र - प्रामाण्यस्य शास्त्रसिद्धत्वात् । २५७ प्रत्ययस्य लुक्श्लुलुपः ( पा००१-१-६१ ) ॥ अनेकसंज्ञाकरणसामर्थ्यात्तन्त्रावृत्त्याद्याश्रित्य तद्भावितसंज्ञा इह विज्ञायन्ते । लुक्श्लुलुप्. शब्दैः कृतं प्रत्ययादर्शनं क्रमादेतत्संज्ञं स्यात् । संज्ञाप्रदेशा "लुक् तद्धि तलुकि" (पा०सू०१-२-४९ ) " जुहोत्यादिभ्यः श्लुः" (पा०सु०२-४-७५ ) “जनपदे लुप्” (पा०सु०४-२-८१ ) इति । विधिप्रदेशेषु भाविसंज्ञाविज्ञाननान्योन्याश्रयः । विशेषविहिता अध्येताः संज्ञा लोपसंज्ञां न बाधन्ते । एकसंज्ञाधिकारादन्यत्र सनानां बाध्यबाधकभावो नास्तीति 'आकडा' 'सूत्रे वक्ष्यमाणत्वात् । प्रत्ययस्येति शक्यमकर्त्तुम् । न चैवं "लुक् तद्धि तलुकि " (पा०सु०१-२-४९) इति विधीयमानमदर्शनं " गोस्त्रियोः" (पाο सु०१-२-४६) इत्यनुवृत्ते गशब्दस्यापि स्यादिति वाच्यम्, “गोरुपसर्ज नस्य" इति योगं विभज्य "स्त्रियाः" "लुक् तद्धितलुकि" (पा०सू०१२-४९) इति सूत्रे स्त्रीग्रहणस्यैवानुवर्तन संभवात् । अन्यथा प्रत्ययत्रहणे कृतेऽपि गमेडलुक् स्यात् । "कंसीयपरशव्ययोर्यत्रो लुक् च '2 ( पा०सु०४ - ३ - १६८) इति लुगपि प्रकृतेर्न भविष्यति "ङवाष्प्रातिपदिकां त्" ( पा०सू०४-१-१) इत्यधिकारात्प्रातिपदिकात्परस्य लुग्विधानात् । कृतेऽपि हि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् प्राप्त एवमेव परिहार्यः । न चैवं यञञोरेव लुगस्तु विधानसामर्थ्याच्च यञञ्लुकां विकल्पः । वेत्यनुक्तिस्तु यत्रञ्भ्यां मुक्त औरसर्गिकस्य श्रवणं माभूदित्येवमर्थमिति वाच्यम्, यञञ्लुका मेककालप्रती तानामुद्देश्य विधेयभावासम्भवात् । "ट्युट्युलौ तु" (पा०सु०५०४३-२३) इत्यत्र तु "घकालतनेषु" (पा०सु०६-३- १७) इति "अनद्यतने लड्” (पा०सु०३-२-१११) इति च ज्ञापकाद्वाक्यभेदमाश्रित्य ट्युट्युलोस्तुड् विधीयते । तस्मादप्रत्ययनिवृत्तये तात्रत् प्रत्ययग्रहणं न कर्त्तव्यम् । शब्द. प्रथम 17 •

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308