Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 270
________________ विधिशेषप्रकरणे प्रत्ययलक्षणसूत्रम् । २६१ इत्येवास्तु । कृणोतेस्तु दीर्घ 'सुकीः, सुकीर्णो, सुकीर्णः' इत्यादि भव. स्वित्यपि चिन्त्यम् । नन्ववं परिवीः' इत्यत्र तुग्दीक़ पर्यायेण स्याताम् । अनेनैवोभयः विधाने पौर्वापर्याभावेन "विप्रतिषेधे परम्' (पा सु०१-४-२) इत्यस्याप्रवृत्तः । सत्यम् , शास्त्रातिदेशस्य व्यपदेशातिदेशस्य वाश्रयणा. ददोषः । यद्वा, सति प्रत्यये यत्कार्य भवितुमर्हति तदेवातिदिश्यते इति परिवीय' इत्यादाविव 'परिवीः' इत्यत्रापि दीर्घ एव भवति न तु तुगिति कार्यातिदेशेऽप्यदोषः। __भाष्यकारास्त्वाहुः-तृणहइमर्थ तावन्नदं सूत्रम्, स्थानिवत्सूत्रे. णेव गतार्थत्वात् । न चाल्विधिरयम् , हलीत्यस्य निवर्तनात् । न चैवं 'तृणहानि' इत्यत्रापीम् स्यादिति वाच्यम् "नाभ्यस्तस्याचि" (पासू० ७-३-८७) इत्यतोऽचि नेत्यनुवर्तनात् । नापि 'आशीः' इत्यत्र “शासइदङ्हलोः" (पा०४०६-४-३४) इतीत्वार्थमिदम् , आशासः कावुपसं. ख्याननैव सिद्धेः । तद्धि त्वयाऽपि वाच्यम् । “शास इदहलोः" (पा०सु०६-४-३४) इत्यत्र शासिमात्रग्रहणमिति पक्षे नियमार्थम-आ. शासः कावेव यथा स्यात 'आशास्ते' इत्यादौ मा भूदिति । यस्मा. च्छासेरङ् विहितस्तस्यैवाङ्साहचर्यादित्वविधौ ग्रहणमिति पक्षे यथा 'आशास्त' इत्यादौ न भवति, तथा विप्यपि न स्यादिति विध्यर्थम् । तस्मात्प्रत्ययलोपे सति प्रत्ययलक्षणमेवेति नियमार्थमिदं सूत्रम् । प्रत्यः याप्रत्ययसाधारणं रूपमाश्रित्य यत्कार्य विधीयते तन्निवृत्तिः फलम् । तेन शोभना इषदोऽस्य प्रासादस्य सुषत् । अत्र "सोर्मनसीअलोमो. षसी" (पासू०६-२-११७) इति सूत्रेण सुशब्दात्परस्य मनन्तस्यास. न्तस्य चोत्तरपदस्य बहुवीही विधीयमानमाद्युदात्तत्वं न भवति । अत्र हि लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुत्तरपदमस्त्येव । किन्त्वस् इति रूपं प्रत्ययाप्रत्ययसाधारणम्, "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकन च तदन्तविधि प्रयोजयन्ति" (प०भा०१६) इति वक्ष्यमाणत्वात् । अतो नियमेनाद्युदात्तव्यावृत्तिः सिद्धा । तथाच "नसुभ्याम्" (पा००६-२१७२) इत्यन्तोदात्तं पदं भवति । इदन्त्ववधेयम् । न केवलं स्वरार्थमेवेदं सुत्रम् । किन्तूकोदाहरणे. एव प्राप्नुवन् "अत्वसन्तस्य" (पा०सू०६-४-१४) इत्युपधादी?ऽपि उ. क्तनियमेनैव व्यावर्त्यः । वार्तिकमते तु उकस्वरस्य दीर्धन्यावत्तेश्व सिद्धये उपायान्तरमन्वेषणीयमिति । ननु यदि नियमार्थ सूत्रं तर्हि 'पर' इत्यत्र प्रत्ययलक्षणेन पदस्व.

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308