Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
२५४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमाहिकेजावयिषति' इत्यत्र इत्वं यथा स्यात् । तथाहि । पु यु इत्यनयोः सनि इटि परत्वाद् गुणे कृने पूर्वविप्रतिषेधेनावादेशात्पूर्व द्वित्वमितीत्वं व. क्तव्यमेव । तथा "जुचक्रम्य''(पासू०३-२-१५०) इत्यत्र निर्दिष्टा. सौत्राज्जुधातोण्यंन्तात्सनि जिजावयिषतीत्यत्र "चुटुतुशरादेः" इत्युत्वे प्राप्ते तद्वाधनायेत्वं वक्तव्यम्। न च तत्र चकारमेव पठिप्यामि न तु चुश ब्दमिति वाच्यम् "गुङ् घुङ् ध्वनौ"(भ्वा० आ०९७९) आभ्यां णिजन्ता. भ्यां चङि सति च अजूगवत् , अजूघवत, जुगावयिषति, जुघावयि. षति इत्याधसिद्धिप्रसङ्गात् । किञ्च. 'दिदवनीयिषीत' 'निनवनीयिष. ति इत्यत्र "चुटुतुशरादेः" इत्युत्वं स्यादिति तद्वारणाय वचनान्तर. मास्थयम् । अथ वा "सन्यतः"(पासु०७-४-७९) इति सुत्राद् गुणो यङ्लुकोः (पा०सु०७-४-८२) इत्याद्यष्टसूच्या विाच्छन्नमपि सन्ग्रहणं मण्डूकप्लुत्या(१)नुवर्त्य सूत्रमतोक्तरोत्या 'येन नाव्यवधान'न्यायेन णिजामनर्व्यवधाने उत्वं नेति समाधेयम् । एवमपि तनुशब्दादाचा. रक्तिबन्ता तुमण्णौ सत्यसति वा यदा सन् तत्र 'तितनविषति' 'ति. तनावायषति' इत्यत्राप्युत्वं स्या' तद्वारणाय ओदौदादेशस्ये. ति वार्तिकमन्यथैव व्याख्येयम्, तद्यथा, अभ्यासस्यत्यवयवषष्ठी। ओदौदित्यादिस्तु सम्बन्धसामान्ये षष्ठी । उभयमप्यतो विशेषणम् । तदयमर्थः-अभ्यासस्यावयवभूतस्तथा ओदौदादशस्य यथायथमव. यव आदेशो वा योऽत्तस्योद्भवति । 'चुनावयिषति' इत्यवयवः । 'पु. स्फारयिषति' इत्यादेशः । तथाचाद्ग्रहणमपि सार्थकम् । अन्यथा 'आटिटत्' इत्यादिसिद्धये चपर णो यदहं तदवयवे लघौ सन्वदति. देशाद् आर्जिज'इत्यादातिप्रसङ्गविरहादत इति व्यर्थ स्यादिति दिक् । तथाच सूत्रमतापेक्षया बार्तिकमते महदेव गौरवमिति ।
स्यादेतत् । माऽस्तु प्रकृतसूत्रं मा च वार्तिकम् । "ओः पुराण" (पासू०७-४-८०) इत्येतदेव शापयिष्यति अन्तरङ्गं नित्यं च बाधित्वा द्विर्वचनं स्यादिति । ततो द्वित्वे कृते यथाप्राप्तं यणादि करिष्यते । मैं. वम् , 'निनवनीयिषति' 'दिदवनीयिषति' इत्याद्यसिद्धः। किश सा. मान्यापेक्षं झापकं विशेषापेक्षं वा ? आधे 'अचिकीर्तव' इति न सि. ध्येत । अन्त्ये 'चक्रतुः' इत्यादि न सिध्येत् । तस्मात्सत्रं कर्तव्यमेव । 'चुक्षावयिषति' इत्यादिसिद्धये तु "ओः पुयण" (पा०९०७-४-८०) इति शापकमाश्रयणीयम् । तच्च तुल्यजातीयापेक्षमिति स्थितम् । अन एव वामनोदाहृतम् 'औजढत्' इत्येतद्भाग्यविरुद्धमिति बोपदेवोपष्ट
(१) प्रछतन्याससूत्रे ओदौदादेशस्य चुटुतुशरावेः" इत्यत्रेत्यर्थः।

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308