Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 240
________________ विधिशेषप्रकरणेऽतिदेशसूत्रम् । २३२ इति स्थिते टिलापश्च प्राप्नोति “अत उपधायाः" (पासु०७-२-१६६) इति वृद्धिश्च । उभयोर्नित्ययोः परत्वाद् वृद्धिः। ततष्टिलोपे कृते स्वत एवानादि ष्टादचः पूर्वमादन्तं न तु स्थानिद्वारेति पुन प्राप्नोति । तस्माच्छपिणिचो गुणे कृते एचि वृद्धावायादेशे 'तितायति' इति भवति । न च तिता णिच् इति स्थिते अन्तरङ्गत्वादाद्गुणे शप्ययादेशे तितयति' इति स्यादिति वाच्यम्, शपि हि गुणे सति "वृद्धिरोचि" (पा०सू०६-१-८८) इति बाधेनाद्गुणस्य निमित्तविघातस्योत्पत्स्यमानतयाऽकृतव्यूह परिभाषया पूर्वमन्तरङ्गस्याप्याद्गुणस्याप्रवृत्तेः । अकृतव्यूहपरिभाषा ह्यन्तरङ्गपरि. भाषाया अपवाद इत्युक्तम् । न च शपि गुणस्य "अचः परस्मिन्" (पा० सू०१-१-५७) इति स्थानिवस्वादाद्गुणस्य न निमित्तविघात इति वा. च्यम्, पूर्वस्यैव विधौ स्थानिवद्भावो न तु पूर्वपरयोर्विघावित्युक्त स्वात्। तस्मात् 'तितायति' इत्येव 'धु, न तु 'तितयति' 'तितापयति' इति वा । चङि तु तिता णिच् चङ् तिप् इति स्थिते "तनोतर्डउः स न्वच" (उ०सू०५४१) इति व्युत्पत्तिपक्षे "अनभ्यासस्य" इति द्वित्वनि षेधे टिलोपस्य चपरनिहाँसे स्थानिवत्वनिषेधाद् ह्रस्वाभावे णिलोपे तस्य स्थानिवत्वादसिद्धत्वाद्वाऽऽतोलोपाभावे दीर्घविधि प्रति स्थानिवत्त्वनिषेधात्सवर्णदीर्घ 'अतितात्' इति भवति न 'अतितापत्' इति । अत्रेदं वक्तव्यम्-परत्वाद् वृद्धिरित्यसङ्गतं नित्यत्वेन टिलोपात् । न च वृद्धिनित्या "अचः परस्मिन्" (पासू०१-१-५७) इति कार्यातिदे. शेन वृद्धिप्राप्तावपि "लक्षणान्तरेण प्राप्नुवन्ननित्यः" इति न्यायेनानि त्यत्वात् । एवं च हरदत्तोक्तिः सुष्ठवेव । किन्तु अनित्यत्वेऽपि स्थानि द्वारकं पूर्वत्वमिह नेष्यते इत्यस्मिन्नर्थे प्रमाणं चिन्त्यम् । तदेवं स्थानिद्वारकं वा स्वतो वा उभयथाप्यचः पूर्वत्वमिह गृह्यते इति स्थितम् । विधीयते इति विधिरिति कर्मणि किप्रत्ययः । पूर्वस्येति शेषे षष्ठी, अनुवादे परिभाषानुपस्थानात् । पुगाद्यागमेऽपि विधेये स्था. निवद्भावः । अव इत्यत्र तु आदेश इति समभिव्याहारात् योग्यताबलात स्थानिसम्बन्धलाभः, “षष्ठी स्थाने योगा" (पा० सु०१-१-४९) इत्यतः पूर्वसूत्रेऽनुवर्तितस्य स्थानेग्रहणस्येहाप्यनुवृत्तेर्वेति प्रसिद्धः पन्थाः । ___ न्यासकारस्तु निमित्तापेक्षमादेशापेक्षं वा पूर्वत्वमित्यपि पक्षी भाष्ये उपन्यस्तत्वात्स्वीचकार । वैयाकरणादौ तु बहिरङ्गयोरैचोरसि. द्धत्वान्न दोष इत्याह । इदं च नाजानन्तर्यपरिभाषाया बहिरङ्गपरिभा. षाया एव वा अनित्यतेति प्रागुक्तमुपष्टभ्य समर्थनीयम् । अस्मिन्पले विधिरिति भावे किः, षष्ठी तु अनभिहितत्वात्कर्मणीत्यपि सुस्थमेव ।

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308