Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 235
________________ -२२६ शब्दकौस्तुभप्रथमाध्यायप्रथमपादेऽष्टमान्हिके "ल्यपि लघुपूर्वात्" (पा०स०६-४-५६) इत्यनेन सामर्थ्यादन्यपदार्थस्य वर्णस्यापेक्षायां वर्णग्रहणे जातिग्रहणाद्यवधानेऽपि न दोष इति । के. चित्तु पञ्चमीसमास इह मास्तु, प्रयोजनाभावात् । तथाहि, 'बेभिदिता' 'माथितिकः' 'अपीपचन्' इति प्रयोजनत्रयं भाप्ये उक्तम । तत्र 'बेभि. दिता' इति तावदन्यथासिद्धम् “एकाच उपदेशे' (पा० सू०७-२-१०) इत्यत्र विहितविशेषणाश्रयणात् । माथितिकेति मथितं पण्यमस्येति वि. ग्रहे "तदस्यपण्यम्" (पा०स०४-४-५१) इति ठाक तस्येकादेशे "यस्ये. ति च" (पासू०६-४-१४८) इत्यल्लोपे कृते "इसुसुक्तान्तात" (पासू० 9-३-५१) इति कादेशो न भविष्यति "अनविधौ” (पासू०१-१५६) इतिनिषेधेन स्थानिवद्भावासम्भवात् । “ठस्येकः' (पा०स०७-३-५०) इत्यत्र स्थान्यादेशयोरकारस्य उच्चारणार्थतया वर्णमात्रस्य स्था. नित्वात् । अस्तु वा स्थान्यादेशयोरकारस्य विवक्षा । न चैः वमनल्विाधित्वात्कादेशप्रसङ्गः सन्निपातपरिभाषया समाधानात् । न चापीपचन्नित्युदाहरणम् । इह हि अन्तेरकारस्य चकारस्य च "अतो गुणे" (पा० सू०६-१-९७) इति पररूपत्वे तस्य परं प्रत्या. दिवद्भावाज्झिग्रहणेन ग्रहणे सति "सिजभ्यस्त" (पा०९० ३.४१०९) इति जुस् प्राप्ता णिलोपस्यैकादेशस्य वा स्थानिवद्भावान भ. वतीति वाच्यम्, वत्तर्हि लङयेवानन्तरो झिः सम्भवतीति तत्साहच. दिभ्यस्तादपि लङ एव झर्जुविधानात् । न च सिचा साहचर्याल्लु डोऽपि ग्रहणमस्त्विति वाच्यम् "विप्रतिषेधे परम्" (पा० सू०१-४-२) इति परसाहचर्यस्य बलीयस्वादिति । अत एव भवतेर्यङ्लुङन्ताल्लुङि 'अबोभूवन्' इति माधवः । पञ्चमीसमासप्रयोजनतया 'अपीपचन्' इत्युः दाहरतो भगवतस्तु नेह साहचर्य नियामकतया सम्मतम् । कृत्वोऽर्थन हणाद्धि ज्ञापकात्साहचर्य न सर्वत्राश्रीयते इत्युक्तं "दीधीवेवीटाम्" (पा०सू०१-१-६) इति सूत्रे । तस्माद्यङ्लुकि भुवो लुङि जुसेवोचितः "आतः” (पा०स०३-४-११०) इति नियमस्य सिचः परत्वमाश्रित्य यो जुस्प्राप्तस्तन्मात्रपरताया माधवेनैवोक्तत्वात् । अभ्यस्ताश्रयस्य जुसो दुर्वारत्वात् । यदि तु लाघवाद् "आत:'' (पासू०३-५-११०) इति निय. मः सामान्यापेक्षस्तदा मुसभावे "अदभ्यस्तातू' (पा० स०७-१-४) इत्यतू, तथा च 'अबोभूवुः' 'अयोभूवत्' इति पक्षभेदेन रूपद्वयं लभ्यते, नित्यत्वेन वुको गुणवाधकत्वात् । माधवोदात्तम् 'अबोभूवन्' इति तु चिन्त्यमेव, अन्त्यादेशस्य दुर्लभत्वात् । 'अपीपचन्' इत्येतत्सिद्धय 1 पञ्चमीसमास आश्रयणीयः । विगणय्य' इत्यादावतिप्रस.

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308