Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 216
________________ विधिशेषप्रकरणे अतिदेशसूत्रम् । सत्र हि लसार्वधातुकाभावादनुदाचाप्राप्त्या"चितः"(पा०स०६-१-१६३) इत्यन्तोदात्तत्वमेव प्राप्तमिष्टं च । तत्रानिष्टार्थमेव नित्त्वं किन्न स्यादिति तस्याशयः । न त्वेतद् युक्तम् “अन्यत्र विकरणेभ्यः" इति पर्युदासाच्छ्य. स्वरस्य दुर्बलत्वात् । न च नित्वसामात्तद्वाधः,लसार्वधातुके चरि. तार्थत्वात् । तत्र स्थानिवद्भावलब्धन पित्त्वेन गतार्थतेति चेत् ? न, इह निस्वेनातिदेशपर्युदासयोरन्यतरस्मिन्नवश्यबाध्येऽतिदेशबाघस्यैव न्या. य्यत्वात् , “पूर्वान बाधन्ते नोत्तरान्" (प.भा०ए० ६१) इति न्याया. च्च । यत्तु कैश्चिच्चानशन्तस्यायुदात्तत्वमिष्टमित्येवंपरतया केयटन. न्थं व्याख्याय "विकरणेभ्योऽन्यत्र" इति पर्युदासस्तु यत्र विकरणः स्वरभाक् तद्विषयः, इह तु विकरणो न स्वरभाक् "सौवर्यः सप्तम्यस्तदन्तसप्तम्यः" इति सिद्धान्तादित्युक्तम् । तदेतनिर्मूलम् , घुसंज्ञासूत्रशेषस्थेन खरसूत्रस्थेन च भाग्येण विरुद्धं चेत्युपेक्ष्यम् । किश्च "आतोऽनुपसर्गे कः' (पासू०३-२-३) इति कापवादस्य "गापोष्टक" (पासू०३-२-८) इति टकः किरकरणं ज्ञापकमनापवादे उत्सर्गकृतं भवतीति । अनल्विधाविति किम् ? तेन तस्मात्तस्य तस्मिश्च विधौ मा भूत । तत्राला विधौ यथा व्यूढोरस्केन । अत्र "सोपदादो" (पासू०८-३-३८) इति विसर्जनीयस्य स्थान विहितस्य सकारस्य स्थानिवत्वाद्विसर्जनी. यस्य अटसुपदेशाद् "अड्व्यवाये" इति णत्वं "प., । अलः परस्य विधौ यथा--द्यौः। पन्थाः। सः। अत्र हल्ङयादिलोपो न भवति। अलो विधौ यथा--"दिव उत्" ( पा०सू०६-१-३१) युकामः । "लोपोव्योर्वलि' (पासू०६-१-६६) इति लोपो न भवति । उत्वविधानं तु 'अहर्विमलद्यु' इत्यादौ चरितार्थम । अलि विधौ यथा--यजेः कः इष्टः । क इष्ट इत्यत्र सम्प्रसारणस्य स्थानिवत्वात् 'कोयष्टा' इत्यादाविव "हशि च'' (पासू०६-१-११४) इत्युत्वं न भवति। 'स इष्टः' इत्यत्र एतत्तदोः सुलोपो न भवति । अनल इत्युक्तपि सम्बन्धसामान्य षष्ठया प्रागुकानेकविभक्त्यर्थसहो यद्यपि सम्भवति, तथापि विधिशब्दोपादानमप्राधान्येनाप्यल आश्रयणे निषे. धार्थम् । तेन 'प्रपठ्य' इत्यादि सिद्धम् । अत्र हि वलादेरित्यप्राधान्येनालाश्रितः न तु प्राधान्येन । स्यादेतत् । स्थान्यनुबन्धकार्याण्यपि तर्हि निषिध्येरन् । तथाच प्र. दीव्य' इत्यत्र स्थानिवद्भावेन कित्त्वं न लभ्येतति चेत् ? न,"अनेकान्ता अनबन्धाः' (पा०सू०४ ) इति पक्षे अनुबन्धानां स्थान्यत्त्वाभावात ।

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308