Book Title: Shabda Kaustubh Part 01
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 209
________________ २०० शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमाहिके अलोऽन्त्यस्य (पा०स०१-१-५२)। स्थानषष्ठीनिर्दिष्टस्य यदुच्यते तत्तदन्त्यस्यालः स्थाने बोध्यम् । "त्यदादीनामः'-(पा०म०७-२-१०२) सः, यः । स्थानषष्ठीति किम् ? आद्धधातुकस्येट् तृच ऋकारात्पूर्वो मा भूत । इदं च षष्ठी स्थानेयोगा" (पा०सू०१-१-४९) इति सूत्रस्यानु वृत्तेर्लभ्यते । अल इति किम् ? "पदस्य" (पा०स०८-१-१६) इत्यधि. कृत्य विधीयमानं "वसुस्रंसु" (पा०सू०८-२-७२) इति दत्वं 'परमान हुद्भयाम्' इत्यदावन्त्यस्य पदस्य मा भूत् । एतेनाल इति जसन्तमा. श्रित्यालात्मका आदेशा अन्त्यस्य स्युरिति व्याचक्षाणाः परास्ताः, अन्त्यस्य पदस्थापि प्रसङ्गात् । किश्चैवं लाघवार्थमलन्त्यस्येत्येव सूत्र. येत् । अपि च 'अरुमनश्चक्षुश्चतोरहोरजसा लोपः" (पासू०५-४-५१) "पादशतस्य संख्यादेः'' (पा०सू०५-४-१) इति लोपो ढकि लोपश्च सर्वादेशः स्यात् । ततश्च 'विरजीकरोति' इत्यादि न सिध्येत् । यत्तु अल इति जसन्तमिति पक्षे "अनेकालिशत्सर्वस्य" (०सू०१-१-५२) इति सत्रे अनेकालग्रहणं न कर्त्तव्यमिति लाघवोपवर्णनं, तदपि न, षष्ठीति पक्षेऽपि "ङिच्च" इत्यत्र ङिदेवानेकाल अन्त्यस्य स्यात्, न तु आङदपी. ति नियमाश्रयणेनानेकाल्ग्रहणप्रत्याख्यानसम्भवात् । वस्तुतस्तु पक्षद्वयेऽप्यनेकाल्ग्रहणं कर्त्तव्यमेव । अन्यथा "अतो भिस ऐस (पा० सू०७-१-९) इत्यादिपञ्चमीनिर्देशंवनेकालप्यादेशः परस्यादेः स्यात् । सत्यमेकालग्रहणे परत्वात्सर्वादेशः । अत एव "तस्मादित्युत्तरस्यादेः' इति न सूषितम् । तथाहि, "अलोऽन्त्यस्य" (पा०स०१-१-५२) इत्यस्य द्वावपवादो-"आदेः परस्य" (पा०म०१-१-५४) "अनेकालाशत्सर्वस्य' (पा०सू०१-१-५५) इति । तत्र प्रथमस्यावकाश:-"ईदासः' (पासू०७२-८३) "बहोर्लोपः” (पा०सू०६-४-१५८) इति । आसीनः 'भूयान्। द्वितीय स्यावकाशः-"अस्तेर्भूः" (पा०म०२-४-५२) इत्यादि । “अतो भिस" (पा०सू०७-१-९) इत्यादेः परत्वात्सर्वादेशत्व सिद्धं 'रामैः' इत्यादि । न च "आदेः परस्य' (पा०स०१-१-५४) इत्यत्राल इति जस. न्तमनुवयं 'रामैः' इत्यादि साधनीयमिति वाच्यम् , तथा सति भूयान्' 'भूमी' इत्याद्यसिद्ध्यापत्तेः । तदेवं कार्यस्यान्त्यल्यनुसंहारो व्याख्यातः "ङिच" (पा०स०१-१-५३) इत्याद्यग्रिमसन्दर्भानुगुणत्वात् । यद्वा, षष्ठ्या एवायमनुसंहारः । या स्थानयोगा षष्ठी साऽन्त्यस्यालो बोध्योते । अत्र पक्षे ङिच्च" (पा०म०१-१-५३) ३ प्रस्थायमर्थःयत्र ङिदादेशो विधीयते तत्र या षष्ठी सा अन्त्यस्याल इति । एवम ग्रेऽपि ।

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308