Book Title: Saptabhangivinshika
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 10
________________ ७ इति च तुरीयभङ्गो दर्शितः, तथापि परमकारुणिक श्रीसिद्धसेनदिवाकरसूरिभिः सम्मतितर्कमहार्णवे तृतीयभङ्गः स्यादवक्तव्य इति दर्शितः, तुरीयश्च स्यादस्ति नास्ति च । सम्मतिग्रन्थोक्तरीतिमनुसृत्यात्रापि तृतीयभङ्गः स्यादवक्तव्य उक्त इति । (ब) स्वपरोभयरूपापेक्षप्रश्नसमाधाने प्रथम - द्वितीय- चतुर्थभङ्गानामसामर्थ्यात् 'स्यादवक्तव्य' इति तृतीयभङ्गस्यावश्यकता साधिता । तत्रैव च न्यायदर्शनसम्मतविशेषणाभावप्रयुक्तविशिष्टाभावनियमस्यानिर्णायक्ता, तत्स्वीकारे च विनिगमकाभावं प्रदश्यभयं स्वरूपं पररूपं वा स्यादिति दोषः प्रदर्शितः । (क) प्रासङ्गिकचर्चारूपेण चार्पितानर्पितनयद्रव्यार्थिकपर्यायार्थिकनयभेदाभेदसप्तभङ्गीनिरूपणादिकं कृतम् । पुष्पदन्तशब्देन सूर्यस्य चन्द्रस्य च योपस्थिति: सैकोक्त्या भिन्नोक्त्या वा सूर्यत्वादिना च केन धर्मेणेत्यस्य तर्कपूर्णा रसप्रदा चर्चा कृता । एकोक्त्या सूर्य-चन्द्रोभयत्वेन धर्मेणोभयोरुपस्थितिरिति निर्णीतञ्च । भिन्नोक्त्याऽनेकार्थकहरिशब्दस्यापि चर्चा विन्यस्ता । किञ्चास्मिन् ग्रन्थे 'स्यादवाच्य' इतिभङ्गस्थितावाच्यत्व-आगमशास्त्रोक्तानभिलाप्यत्वयोर्महदन्तरं स्थापयित्वा संकेतितपदाभिलाप्यत्वशून्यत्वमनभिलाप्यत्वं, स्वपरोभयरूपयोर्युगपत्कथने शब्दस्यासामर्थ्यं, शब्दाक्षमत्वं = सर्वपदवाच्यत्वाभावोऽवाच्यपदार्थ इति यावदिति स्पष्टीकृतम् । अन्ते तु जिज्ञासूनामेका रुचिप्रदा चर्चा चर्चिता सम्मतिग्रंथे श्रीसिद्धसेनसूरिप्रवरैरर्थपर्यायो व्यञ्जनपर्यायश्चेति द्वौ विषयौ चर्चितौ । अर्थपर्याये सप्तभङ्गा दर्शिताः, व्यञ्जनपर्याये चाद्यद्वितीयौ द्वौ भङ्गौ दर्शितौ । तदुपपत्तिरत्र साधिता । तदित्थं प्रथमं तावद् व्यञ्जनपर्यायस्य स्वरूपं दर्शितम् । घटादिपदवाच्यता व्यञ्जनपर्यायस्य स्वरूपम् । नामूलं लिख्यते किञ्चिदिति कृत्वा महोपाध्याय श्रीयशोविजयवाचकवरैर्द्रव्यगुणपर्यायरासे व्याख्यैषा कथितेति कथितम् । स्वरूपांशभूतोऽर्थपर्यायस्तदनंशभूतश्च व्यञ्जनपर्याय इत्यादिरूपो द्वयोर्भेदः कथितः साधितश्च । सत्त्व - ज्ञेयत्वादिकस्यान्तर्भावो नार्थपर्याये न वा व्यञ्जनपर्यायेऽस्तीति विस्तरतो विवेचितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 180