Book Title: Saptabhangivinshika Author(s): Abhayshekharsuri Publisher: Divya Darshan Trust View full book textPage 9
________________ किञ्चित्प्रास्ताविकम् -दीक्षादानेश्वरी पू. आ. श्री विजयगुणरत्नसूरिशिष्य पं. श्री रश्मिरत्नविजय गणिवर सुनिश्चितमेवैतद् विपश्चिदपश्चिमानां यदुतेह जगति पुरुषार्थशेखरायमाणो मोक्ष एव शरणमपारसंसारकान्तारसंसरणापादितक्लिष्टकर्मणां प्राणिनां, तदवाप्त्युपायश्चापास्तसर्वतीर्थान्तरीयमतकर्दमं सर्वदर्शनप्रासादशिखरोपर्युपन्यस्तध्वजपताकं सप्तभङ्गीपुरस्सरस्याद्वादसिद्धान्तात्मकं जिनमतम् । अपारवैदुष्यसमलङ्कृतजिनमताभिमतानेकविधग्रन्थेषु सप्तभङ्गीविंशिकानामाऽपूर्वोऽयं ग्रन्थः । अस्य कर्तारश्च तपागच्छीयश्रीविजयप्रेमभुवनभानुसूरिसमुदायभूषणश्रीविजयअभयशेखरसूरीश्वराः परमविद्वांसः। अस्मिंश्च ग्रन्थे जैनमतप्राणभूतानां सप्तभङ्गानां व्याख्यानमनतिविस्तरेण सरलसंस्कृतभाषायां कृतम्। एषा सप्तभङ्गीविंशिका स्वोपज्ञा सानुवादा च निबद्धा ग्रन्थकृताऽऽबालगोपालबोधनार्थम् । सप्तभङ्गीविंशिकाग्रन्थचर्चितविषया: - (अ) प्रथमतः सप्तैव भङ्गाः कथम् ? कथं न न्यूना अधिका वा? इत्येतत्प्रश्नमुद्भाव्य प्राश्निकसंशयानां सप्तधैवोदयः प्रतिपादितः । घटविषयमधिकृत्य सप्तभङ्गानां प्रवृत्तिः प्रदर्शिता । तत्र तृतीयभङ्गत्वेन स्यादवक्तव्य अव घट इति भङ्ग उक्तः । यद्यपि वादिदेवसूरिप्रमुखैराचार्यैः प्रमाणनयतत्त्वालोकालंकार-रत्नाकरावतारिका-सप्तभङ्गीमीमांसा-सप्तभङ्गीतरंगिणीजैनतर्क भाषा-सप्तभङ्गीनयप्रदीप-सप्तभङ्गीप्रभाऽपरनामसप्तभङ्ग्युपनिषदादिग्रन्थेषु तृतीयभङ्गः स्यादस्ति नास्ति चेति दर्शितः, स्यादवक्तव्य Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 180