________________
किञ्चित्प्रास्ताविकम्
-दीक्षादानेश्वरी पू. आ. श्री विजयगुणरत्नसूरिशिष्य पं. श्री रश्मिरत्नविजय गणिवर
सुनिश्चितमेवैतद् विपश्चिदपश्चिमानां यदुतेह जगति पुरुषार्थशेखरायमाणो मोक्ष एव शरणमपारसंसारकान्तारसंसरणापादितक्लिष्टकर्मणां प्राणिनां, तदवाप्त्युपायश्चापास्तसर्वतीर्थान्तरीयमतकर्दमं सर्वदर्शनप्रासादशिखरोपर्युपन्यस्तध्वजपताकं सप्तभङ्गीपुरस्सरस्याद्वादसिद्धान्तात्मकं जिनमतम् ।
अपारवैदुष्यसमलङ्कृतजिनमताभिमतानेकविधग्रन्थेषु सप्तभङ्गीविंशिकानामाऽपूर्वोऽयं ग्रन्थः । अस्य कर्तारश्च तपागच्छीयश्रीविजयप्रेमभुवनभानुसूरिसमुदायभूषणश्रीविजयअभयशेखरसूरीश्वराः परमविद्वांसः। अस्मिंश्च ग्रन्थे जैनमतप्राणभूतानां सप्तभङ्गानां व्याख्यानमनतिविस्तरेण सरलसंस्कृतभाषायां कृतम्। एषा सप्तभङ्गीविंशिका स्वोपज्ञा सानुवादा च निबद्धा ग्रन्थकृताऽऽबालगोपालबोधनार्थम् । सप्तभङ्गीविंशिकाग्रन्थचर्चितविषया: -
(अ) प्रथमतः सप्तैव भङ्गाः कथम् ? कथं न न्यूना अधिका वा? इत्येतत्प्रश्नमुद्भाव्य प्राश्निकसंशयानां सप्तधैवोदयः प्रतिपादितः । घटविषयमधिकृत्य सप्तभङ्गानां प्रवृत्तिः प्रदर्शिता । तत्र तृतीयभङ्गत्वेन स्यादवक्तव्य अव घट इति भङ्ग उक्तः । यद्यपि वादिदेवसूरिप्रमुखैराचार्यैः प्रमाणनयतत्त्वालोकालंकार-रत्नाकरावतारिका-सप्तभङ्गीमीमांसा-सप्तभङ्गीतरंगिणीजैनतर्क भाषा-सप्तभङ्गीनयप्रदीप-सप्तभङ्गीप्रभाऽपरनामसप्तभङ्ग्युपनिषदादिग्रन्थेषु तृतीयभङ्गः स्यादस्ति नास्ति चेति दर्शितः, स्यादवक्तव्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org