Book Title: Ratnakaravatarika Part 2
Author(s): Vadidevsuri, Kalyanbodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 15
________________ तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्ग्रनुमित्या रूपाद्यनुमितिम-भिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यं च ॥ ३-७०॥ पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ, तयोः कालव्यवहितावनुपलम्भात् ॥३-७१॥ न चातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः प्रबोधोत्पात प्रति कारणत्वं, व्यवहितत्वेन निर्व्यापारत्वात् ॥ ३-७२॥ स्वव्यापारापेक्षिणी हि कार्यं प्रति पदार्थस्य कारणत्वव्यवस्था, कुलालस्येव कलशं प्रति ॥३-७३॥ न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥३-७४॥ परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ ३-७५॥ सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेोरपि प्रोक्तेषु नानुप्रवेशः || ३-७६॥ ध्वनिः, परिणतिमान्, प्रयत्नानन्तरीयकत्वात् यः प्रयत्नानन्तरीयकः, स परिणतिमान्, यथा स्तम्भः । यो वा न परिणतिमान् स न प्रयत्नानन्तरीयकः यथा वान्ध्येयः । प्रयत्नानन्तरीयकश्च ध्वनिः, तस्मात् परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्म्येण वैधर्म्येण च ॥३-७७॥ अस्त्यत्र गिरिनिकुञ्जे धनञ्जयो धूमसमुपलम्भादिति कार्यस्य ॥३ - ७८ ॥ भविष्यति वर्षं तथाविधवारिवाहविलोकनादिति कारणस्य ॥३-७९ ॥ उदेष्यति मुहूर्तान्ते तिष्यतारकाः, पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥३-८०॥ उदगुर्मुहूर्त्तात्पूर्वं पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य ॥३-८१॥ अस्तीह सहकारफले रूपविशेषः, समास्वाद्यमानरसविशेषादिति सहचरस्य ॥३-८२॥ विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥ ३-८३॥ तत्राद्या स्वभावविरुद्धोपलब्धिः ॥३-८४॥ यथा नास्त्येव सर्वथैकान्तोऽनेकान्तोपलम्भात् ॥३-८५॥ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥ ३- ८६॥ विरुद्धव्याप्तोपलब्धिर्यथा नास्ति अस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् ॥३-८७॥ विरुद्धकार्योपलब्धिर्यथा - न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेः (दर्शनात्) ॥३-८८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 418