________________
तमस्विन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्ग्रनुमित्या रूपाद्यनुमितिम-भिमन्यमानैरभिमतमेव
किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकारणसाकल्यं च ॥ ३-७०॥ पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ, तयोः कालव्यवहितावनुपलम्भात् ॥३-७१॥ न चातिक्रान्तानागतयोर्जाग्रद्दशासंवेदनमरणयोः
प्रबोधोत्पात प्रति कारणत्वं, व्यवहितत्वेन निर्व्यापारत्वात् ॥ ३-७२॥
स्वव्यापारापेक्षिणी हि कार्यं प्रति पदार्थस्य कारणत्वव्यवस्था, कुलालस्येव कलशं प्रति
॥३-७३॥
न च व्यवहितयोस्तयोर्व्यापारपरिकल्पनं न्याय्यमतिप्रसक्तेः ॥३-७४॥
परम्पराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥ ३-७५॥ सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेोरपि प्रोक्तेषु नानुप्रवेशः || ३-७६॥
ध्वनिः, परिणतिमान्, प्रयत्नानन्तरीयकत्वात् यः प्रयत्नानन्तरीयकः, स परिणतिमान्, यथा स्तम्भः । यो वा न परिणतिमान् स न प्रयत्नानन्तरीयकः यथा वान्ध्येयः । प्रयत्नानन्तरीयकश्च ध्वनिः, तस्मात् परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्म्येण वैधर्म्येण च ॥३-७७॥
अस्त्यत्र गिरिनिकुञ्जे धनञ्जयो धूमसमुपलम्भादिति कार्यस्य ॥३ - ७८ ॥ भविष्यति वर्षं तथाविधवारिवाहविलोकनादिति कारणस्य ॥३-७९ ॥ उदेष्यति मुहूर्तान्ते तिष्यतारकाः, पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥३-८०॥ उदगुर्मुहूर्त्तात्पूर्वं पूर्वफल्गुन्य उत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य ॥३-८१॥ अस्तीह सहकारफले रूपविशेषः, समास्वाद्यमानरसविशेषादिति सहचरस्य ॥३-८२॥ विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा ॥ ३-८३॥ तत्राद्या स्वभावविरुद्धोपलब्धिः ॥३-८४॥
यथा नास्त्येव सर्वथैकान्तोऽनेकान्तोपलम्भात् ॥३-८५॥
प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट् ॥ ३- ८६॥
विरुद्धव्याप्तोपलब्धिर्यथा नास्ति अस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् ॥३-८७॥ विरुद्धकार्योपलब्धिर्यथा - न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेः (दर्शनात्) ॥३-८८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org