________________
यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते, स साधर्म्यदृष्टान्तः ॥३-४५॥ यथा यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसः ॥३-४६।। यत्र तु साध्याभावे साधनस्यावश्यमभावः प्रदर्यते स वैधर्म्यदृष्टान्तः ॥३-४७॥ यथा - अन्यभावे न भवत्येव धूमः, यथा जलाशये ॥३-४८॥ हेतोः साध्यधर्मिण्युपसंहरणमुपनयः ॥३-४९॥ यथा धूमधात्र प्रदेशे ॥३-५०॥ साध्यधर्मस्य पुनर्निगमनम् ॥३-५१॥ यथा-तस्मादग्निरत्र ॥३-५२॥ एते पक्षप्रयोगादयः पश्चाप्यवयवसंज्ञया कीर्त्यन्ते ॥३-५३॥ उक्तलक्षणो हेतुर्द्विप्रकार: - उपलब्ध्यनुपलब्धिभ्यां भिद्यमानत्वात् ॥३-५४॥ उपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनम्, अनुपलब्धिश्च ॥३-५५॥ विधिः सदंशः ॥३-५६॥ प्रतिषेधोऽसदंशः ॥३-५७॥ स चतुर्धा - प्रागभावः, प्रध्वंसाभाव, इतरेतराभावोऽत्यन्ताभावश्च ॥३-५८॥ यनिवृत्तावेव कार्यस्य समुत्पत्तिः, सोऽस्य प्रागभावः ॥३-५९॥ यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥३-६०॥ यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः, सोऽस्य प्रध्वंसाभावः ॥३-६१॥ यथा कपालकदम्बकोत्पत्तौ नियमतो विपद्यमानस्य कलशस्य कपालकदम्बकम् ॥३-६२॥ स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतराभावः ॥३-६३॥ यथा स्तम्भस्वभावात् कुम्भस्वभावव्यावृत्तिः ॥३-६४॥ कालत्रयाऽपेक्षिणी हि तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ॥३-६५॥ यथा चेतनाचेतनयोः ॥३-६६॥ उपलब्धेरपि द्वैविध्यमविरुद्धोपलब्धिर्विरुद्धोपलब्धिश्च ॥३-६७॥ तत्राविरुद्धोपलब्धिर्विधिसिद्धौ षोढा ॥३-६८॥ साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिः ॥३-६९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org