________________
प्रव० सा
रोद्धारे तत्त्वज्ञा
यक्षिण्यः
नवि०
॥९४॥
5 %A5%-
दक्षिणपाणिचतुष्टया, धनुर्वज्रचक्राङ्कुशयुक्तवामपाणिचतुष्टया चेति १, श्रीअजितजिनस्याजिताऽजितबला वा देवी गौरवर्णा लोहासनाधिरूढा २७ जिनचतुर्भुजा वरदपाशकाधिष्ठितदक्षिणकरद्वया बीजपूरकाङ्कुशालङ्कृतवामपाणिद्वया च २, श्रीसम्भवस्य दुरितारिदेवी गौरवर्णा मेषवाहना चतुर्भुजा वरदाक्षसूत्रभूषितदक्षिणभुजद्वया फलाभयान्वितवामकरद्वया च ३, श्रीअभिनन्दनस्य कालीनामा देवी श्यामकान्तिः पद्मासना गा. ३७५चतुर्भुजा वरदपाशाधिष्ठितदक्षिणकरद्वया नागाङ्कुशालङ्कृतवामपाणिद्वया च ४, श्रीसुमतेमहाकाली देवी सुवर्णवर्णा पद्मासना चतुर्भुजा II ७६ वरदपाशाधिष्ठितदक्षिणकरद्वया मातुलिङ्गांकुशयुक्तवामपाणिद्वया चेति ५, श्रीपद्मप्रभस्याच्युता मतान्तरेण श्यामा देवी श्यामवर्णा नरवाहना चतुर्भुजा वरदबाणान्वितदक्षिणकरद्वया कार्मुकाभययुतवामपाणिद्वया च ६, श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा गजवाहना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणकरद्वया शूलाभययुक्तवामहस्तद्वया च ७, श्रीचन्द्रप्रभस्य ज्वाला मतान्तरेण भृकुटिर्देवी पीतवर्णा वरालकाख्यजीवविशेषवाहना चतुर्भुजा खड्गमुद्रभूषितदक्षिणकरद्वया फलकपरशुयुतवामपाणिद्वया च ८, श्रीसुविधेः सुतारा देवी गौरवर्णा वृषभवाहना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणकरद्वया कलशाङ्कुशाञ्चितवामपाणिद्वया च ९, श्रीशीतलस्य अशोका देवी नीलवर्णा पद्मासना चतुर्भुजा वरदपाशयुक्तदक्षिणपाणिद्वया फलकाशयुक्तवामपाणिद्वया च १०, श्रीश्रेयांसस्य श्रीवत्सा देवी मतान्तरेण मानवी गौरवर्णा सिंहवा-| हना चतुर्भुजा वरदपाशयुक्तदक्षिणकरद्वया कलशाङ्कुशयुक्तवामकरद्वया च ११ ॥३७५॥ श्रीवासुपूज्यस्य प्रवरा देवी मतान्तरेण चण्डा देवी श्यामवर्णा तुरगवाहना चतुर्भुजा वरदशक्तियुक्तदक्षिणकरयुगा पुष्पगदायुतवामकरद्वया च १२, श्रीविमलस्य विजया मतान्तरेण विदिता देवी हरितालवर्णा पद्मासना चतुर्भुजा बाणपाशयुक्तदक्षिणकरद्वया धनुर्नागयुतवामपाणिद्वया च १३, श्रीअनन्तजिनस्य अङ्कुशा देवी गौरवर्णा
॥९४॥ पद्मासना चतुर्भुजा खड्गपाशयुक्तदक्षिणपाणिद्वया फलकाङ्कुशयुक्तवामकरद्वया च १४, श्रीधर्मस्य पन्नगा देवी मतान्तरेण कन्दर्पा गौरवर्णा
Jain Education
H
a
l
For Private & Personal use only
W
ww.jainelibrary.org