Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्र. सा. ३७
Jain Education Int
गोमूत्रिका ३ पतङ्गवीथिः ४ पेटा ५ अर्धपेटा ६ 'अभितरबाहि संबुक्क' ति शम्बूकशब्दस्य प्रत्येकमभिसम्बन्धाद्भ्यन्तरशम्बूका ७ बहिः | शम्बूका ८ च ।। ७४५ ।। तत्रैताः क्रमेण व्याचष्टे - 'ठाणे 'त्यादि, प्रथमायां वीथ्यां कश्चिद्यतिः स्वस्थानात् - निजवसतेः ऋजुगत्या - प्राञ्ज| लपथेन समश्रेणिव्यवस्थितगृहपङ्कौ भिक्षां भ्रमन् याति यावत्पङ्केश्वरमं गृहं ततोऽनटन् - भिक्षामगृह्णन् ऋजुगत्या तथैव वलति - निवर्तते, | द्वितीयायां गत्वाप्रत्यागतिकायां भ्रमन्- मिक्षां गृह्णन् समस्थितगृहपङ्कौ प्रविश्य द्वितीयपङ्कौ मिक्षमाण एव निःसरति प्रत्यागच्छति, को| ऽर्थः ? - उपाश्रयान्निर्गतः सन्नेकस्यां गृहपङ्कौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपङ्कौ यस्यां भिक्षते सा गत्वाप्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यामिति च विग्रहः, अन्ये तु ऋज्वीविपर्ययेण गत्वाप्रत्यागतिकां व्याख्यानयन्तीति, तथा वामाद् - वामगृहादक्षिणगृहे दक्षिणगृहाच्च वामगृहे यस्यां भिक्षते सा गोमूत्रिका, गो:-बलीवर्दस्तस्य मूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्परा| भिमुखगृहपङ्कथोरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यां पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, तथा अर्दवितर्दा -अनियता भिक्षा | 'पतङ्गवीथि:' पतङ्गः– शलभस्तस्य वीथिका - मार्गस्तद्वद्या सा तथा, पतङ्गगतिर्हि अनियतक्रमा भवति एवं या अनाश्रितक्रमा सा पतङ्गवीथिकेति, तथा पेटा - वंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा च चतुरस्रा भवति, ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां प्रामादिक्षेत्रं | पेटावच्चतुरस्रं विभज्य मध्यवर्तीनि च गृहाणि मुक्तत्वा चतसृष्वपि दिक्षु समश्रेण्या मिक्षां भ्रमति सा पेटेति भण्यते, तथा दिग्द्वयसम्ब द्वयोर्गृहश्रेण्योर्भिक्षणेऽर्धपेटेति, पेटार्धसमान संस्थानगृह श्रेणिभिक्षणेऽर्धपेटेति भावः, तथा शम्बूकः - शङ्खस्तद्वत् शङ्खभ्रमिवदित्यर्थः या वीथि: सा शम्बूका, इयं च द्वेधा - अभ्यन्तरशम्बूका बहिः शम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्खवृत्तत्वगत्या मिक्षां भ्रमन् बहि| र्विनिःसरति-क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका, तथा बहिः शम्बूका भण्यते एतस्या - अभ्यन्तरशम्बूकाया विपरीतमिक्षया -
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444