Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
वरिसं ॥ ७५७ ॥ दस ता अणुसजंती जा चउद्दसपुधि पढमसंघयणी । तेण परं मूलंतं दुप्पसहो जाव चारिती ।। ७५८ ॥
'आलोये 'त्यादिगाथानवकं, आङ्-मर्यादायां सा च मर्यादा इयं - 'जह वालो जंपतो कज्जमकज्जं च उज्जुअं भणइ । तं तह आलोएज्जा मायामयविमुक्का ॥ १॥ [यथा बालो जल्पन् कार्यमकार्य च ऋजुकं भणति । तथा तदालोचयेत् मायामविप्रमुक्तश्च ॥ १ ॥ |] अनया मर्यादया 'लोच दर्शने' चुरादित्वात् णिच् लोचनं लोचना- प्रकटीकरणं आलोचना, गुरोः पुरतो वचसा प्रकाशनमिति भावः, यत्प्रायश्चित्तमालोचनामात्रेण शुद्ध्यति तदालोचनार्हतया कारणे कार्योपचारादालोचना १, तथा प्रतिक्रमणं - दोषात्प्रतिनिवर्तनं अपुनः करणतया मिध्यादुष्कृतप्रदानमित्यर्थः तदर्ह प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति ? - यत् प्रायश्चित्तं मिथ्यादुष्कृतमात्रेणैव शुद्धिमासादयति न च गुरुसम - क्षमालोच्यते, यथा सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपादुपजातं प्रायश्चित्तं तथाहि - सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति न च हिंसादिकं दोषमापन्नस्तर्हि गुरुसमक्षमालोचनामन्तरेणापि मिध्यादुष्कृतप्रदानमात्रेण स शुद्ध्यति तत्प्रतिक्रमणाईत्वात्प्रतिक्रमणं २, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति आलोच्य गुरुसन्दिष्टः प्रतिक्रामति पञ्चाच्च मिथ्यादुष्कृतमिति ब्रूते तदा शुद्ध्यति तदालोचनाप्रतिक्रमणलक्षणोभयार्हत्वान्मिश्रं ३, तथा विवेक:- परित्यागः, यत्प्रायश्चित्तं विवेक एव कृते शुद्धिमासादयति नान्यथा, यथा आधाकर्मणि गृहीते, तद्विवेकार्हत्वाद्विवेकः ४ तथा व्युत्सर्गः - कायचेष्टानिरोधः, यद् व्युत्सर्गेण - कायचेष्टानिरोधोपयोगमात्रेण शुद्ध्यति प्रायश्चित्तं यथा दुःस्वप्नजनितं तत् व्युत्सर्गार्हत्वाद् व्युत्सर्गः ५, 'तवे 'त्ति यस्मिन् प्रतिसेविते निर्विकृतिका दिषण्मासान्तं तपो दीयते तत्तपोऽर्हत्वात्तपः ६, यस्मिन् पुनरापतिते प्रायश्चित्ते सन्दूषितपूर्वपर्यायदेशावच्छेदः शेषपर्यायरशानिमित्तं दुष्टव्याधिसंदूषितशरीरैकदेशच्छे
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444