Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २२० ॥
प्रतिपादनात् एवं सामान्य साधूनामप्यनवस्थाप्यपाराञ्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यं तच्चानवस्थाप्यं जघन्यतः षण्मासान् यावद्भवति उत्कृष्टतस्तु वर्षमिति, इदं च आशातनानवस्थाप्यमाश्रित्योक्तं, प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणि, उक्तं च - " तत्थ आसायणाअणवटुप्पो जहनेणं छम्मासा उक्कोसेणं संवच्छरं, पडिसेवणाअणवटुप्पो जहनेणं वारस मासा उक्कोसेणं वारस संवच्छराणि "त्ति, तत्र तीर्थकर प्रवचनगणधराद्यधिक्षेपकारी आशातनानवस्थाप्यः, हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यकारी तु प्रतिसेवनानवस्थाप्यः । नन्वेतानि दशापि प्रायश्चित्तानि यावत्तीर्थं तावद्भवन्ति ? उत नेत्याह- 'दस ता' गाहा, यावश्चतुर्दश पूर्वी प्रथमसंहननी च तावद्दश प्रायश्चित्तानि अनुषजन्ति - अनुवर्तन्ते, एतौ च चतुर्दशपूर्विप्रथम संहननिनौ युगपदेव व्यवच्छिन्नौ, तयोश्च व्युच्छिन्नयोरनवस्थाप्यं पाराञ्चितं च व्यवच्छिन्नं, ततः परेण - अनवस्थाप्यपाराश्चितव्यवच्छेदादनन्तरमालोचनादि मूलान्तमष्ट - विधं प्रायश्चित्तं तावदनुवर्तमानं बोद्धव्यं यावद् दुष्प्रसभनामा सूरिः, तस्मिंश्च कालगते तीर्थं चारित्रं च व्यवच्छेदमुपयास्यतीति ९८ || ७५८ ॥ इदानीं 'ओहम्मि पयविभागम्मि सामायारीदुगं'ति नवनवतं शततमं द्वारमाह
सामायारी ओहंम ओहनिज्जुत्तिजंपियं सवं । सा पयविभागसामायारी जा छेयगंधुत्ता ॥ ७५९ ॥ समाचरणं समाचार:- शिष्टजनाचरितः क्रियाकलापः समाचार एव सामाचार्य, भेषजादित्वात् खार्थे ष्यञ् ( पा० ५-४-२३ ) स्त्रीविवक्षायां ‘षिद्गौरादिभ्यश्चेति ( पा० ४ - १ - ४१ ) ङीष्, 'यस्ये' ( यस्येति च पा० ६-४-१४८ ) त्यकारलोपः, यस्य हल ( पा० ६-४-४९) इत्यनेन तद्वितयकारलोपः, परगमनं सामाचारी, सा त्रिधा भवति - ओघसामाचारी दशधासा|माचारी पदविभागसामाचारी च तत्र ओघः - सामान्यं तद्विषया सामाचारी - सामान्यतः सङ्क्षेपामिधानरूपा सा च ओघनिर्युक्तिज
Jain Education International
For Private & Personal Use Only
९९-१०० ओघपद
विभाग
सामाचा
यौं गा.
७५९
॥ २२० ॥
www.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444