Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 430
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ २१८ ॥ Jain Education दनमिव शेषशरीरावयवपरिपालनाय क्रियते तच्छेदार्हत्वाच्छेदः ७, 'मूल'त्ति यस्मिन् समापतिते प्रायश्चित्ते निरवशेषपर्यायोच्छेदमाधाय भूयो महाव्रतारोपणं तन्मूलाईत्वान्मूलं ८, येन पुनः प्रतिसेवितेन उत्थापनाया अप्ययोग्यः सन् कश्चित्कालं न व्रतेषु स्थाप्यते यावन्नाद्यापि प्रतिविशिष्टं तपश्चीर्णं भवति पश्चाच्च चीर्णतपास्तदोषोपरतौ त्रतेषु स्थाप्यते तदनवस्थार्हत्वादनवस्थितप्रायश्चित्तं यद्वा यथोक्तं तपो यावन्न कृतं तावन्न व्रतेषु लिङ्गे वा स्थाप्यते इत्यनवस्थाप्यः तस्य भावोऽनवस्थाप्यता ९, 'पारंचिए चेव'त्ति 'अंचू गतौ' यस्मिन् प्रतिसेविते लिङ्गक्षेत्रकालतपसां पारमश्चति तत्पाराञ्चितं, पाराचितमर्हति ' तदर्हती' ति ( पा०५ - १ - ६३ ) सूत्रेण डः पाराध्वितं यद्वा पारं - अन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमश्वति गच्छतीत्येवंशीलं पाराचि तदेव पाराञ्चिकमिति १० ॥ ७५० ॥ अथैतानि स्वयमेव व्याचष्टे - ' आलोजइ' इत्यादिगाथाषट्कम्, कार्येण - अवश्यकरणीयेन मिक्षाग्रहणादिना हस्तशतात्परत: - ऊर्द्ध यद्गमनमुपलक्षणत्वादागमनादि च तदालोचर्हस्य गुरोः पुरत आलोच्यते- वचसा प्रकटीक्रियते, इयमत्र भावना - गुरुमापृच्छथ गुरुणाऽनुज्ञातः सन् स्वयोग्यभिक्षावस्त्रपात्रशय्यासंस्तारकपादप्रोञ्छनादि यदिवा आचार्योपाध्यायस्थविरबालग्लानरौक्ष कक्षपका समर्थप्रायोग्यवस्त्रपात्रभक्तपानौषधादि गृहीत्वा समागतो यद्वा उच्चारभूमेर्विहाराद्वा समागतः अथवा चैत्यवन्दननिमित्तं पूर्वगृहीतपीठफलकादिप्रत्यर्पणनिमित्तं वा बहुश्रुतापूर्वसंविद्मानां वंदनप्रत्ययं वा संशयव्यवच्छेदाय वा श्राद्धस्वज्ञात्यवसन्नविहाराणां श्रद्धावृद्ध्यर्थं वा साधर्मिकाणां वा संयमोत्साहनिमित्तं हस्तशतात्परं दूरमासन्नं वा गत्वा समागतो यथाविधि गुरुसमक्षमालोचयतीति, इयं चालोचना गमनागमनादिष्ववश्यकर्तव्येषु सम्यगुपयुक्तस्यादुष्टभावतया निरतिचारस्य छद्मस्थस्याप्रमत्तस्य यतेर्द्रष्टव्या, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात् केवलज्ञानिनश्च कृतकृत्यत्वेनालोचनाया अयोगात्, आह- यानि नामावश्यकर्तव्यानि गम्रनादीनि For Private & Personal Use Only ९८ प्राय श्चित्तद शर्क गा. ७५०-८ ॥ २१८ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444