Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 425
________________ Jain Education Se खरण्टितेन हस्तेन संसृष्टेनैव च मात्रकेण - करोटिकादिना गृह्णतः साधोः संसृष्टा नाम भिक्षा भवति, इयं च द्वितीयाऽपि मूलगाथोक्तत्रमापेक्षया प्रथमा, अत्र च संसृष्टासंसृष्टसावशेषनिरवशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति, तथा तद्विपरीता - संसृष्टा - | ख्यभिक्षाविपरीता द्वितीया असंसृष्टा नाम भिक्षा भवति, असंसृष्टेन हस्तेन असंसृष्टेन च मात्रकेण भिक्षां गृहृतः साधोरसंसृष्टेत्यर्थः, अत्र चासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषः तथापि गच्छस्य वालायाकुलत्वात्तन्निषेधो नास्ति अत एव सूत्रे तच्चिन्ता न कृता । तथा निजयोगेन - आत्मव्यापारेणैव भोजनजातं मूलस्थाल्यादेः सकाशादन्यत्र स्थास्यादावुद्धृतं तच्च साधोर्गृहत उद्धृता तृतीया भिक्षा भवति, तथा सा अल्पलेपिका नाम चतुर्थी मिक्षा या निर्लेपा वल्लचणकादिः, आदिशब्दात्पृथुकादिपरिग्रहः, अत्र चाल्पशब्दोऽभाववाचकः, ततोऽल्पलेपा निर्लेपा नीरसेत्यर्थः, यद्वाऽल्पः - स्तोको लेपः पश्चा| त्कर्मादिजनितः कर्मसंबन्धो वा यस्यां सा अल्पलेपा, उक्तं च आचाराङ्गे– 'असि खलु पडिग्गाहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए'त्ति अत्र च - पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि तथा अल्पं पर्यायजातं, अल्पं तुषादि त्यजनीयमित्यर्थः, तथा भोजनसमये निहितं - निक्षिप्तं शरावप्रमुखेषु - शरावकांस्यपात्रादिषु भाजनेषु भोक्तुकामस्य ढौकितं यद्भोजनजातं कूरादिकं तद् गृहृतो यतेरवगृहीता पञ्चमी भिक्षा भवति, अत्र च दात्रा कदाचित्पूर्वमेव उदकेन हस्तो मात्रकं वा धौतं स्यात्ततो यदि परिणतः पाण्यादिषूदकले पस्तदा कल्पते अन्यथा तु निषेध:, तथा भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन परिवेषकेण पिठरकादेरुद्धृत्य चटुकादिना उत्क्षिप्तं परेण च न गृहीतं प्रत्रजिताय दापितं यद्वा भोका स्वयं भोक्तुं करेण - निजहस्तेन यद् गृहीतमशनादि तद् गृहतो यतेः प्रगृहीता नाम षष्ठी मिक्षा For Private & Personal Use Only ininelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444