Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ १८१ ॥
Jain Education
इरोसा गिहिवच्छलगा य संचइगा ॥ १ ॥” [ अविषहणा अत्वरितगतयः गुरूणामप्यननुवृत्तयः । क्षणमात्रप्रीतिरोषाः गृहिवत्सलकाच संचयिकाः ॥ १ ॥ ] अन्यैरप्युक्तं - "अनित्यताशब्दमुदाहरन्ति भग्नां च तुम्बीं परिशोचयन्ति । यथा तथाऽन्यं च विकत्थयन्ति, हरीतकीं नैव परित्यजन्ति ॥ १ ॥" अन्यत्र तु 'सव्वसाहूणं'ति पठित्वा 'मायी'ति भिन्नैव पञ्चमी भावना प्रतिपादिता, यथा - "गूहइ आयसहावं छायइ य गुणे परस्स संतेवि । चोरोव्व सब्वसंकी गूढायारो हवइ माई || १ || ” [ गूहते आत्मस्वभावं परस्य च सतोऽपि गुणान् आच्छादयति । चौर इव सर्वशङ्की गूढाचारो भवति मायी ॥ १ ॥ ] ॥ ६४३॥ अथ आभियोगीं भावनां पञ्चभेदामाह - 'कोउये 'त्यादि, अत्र सप्तमी तृतीयार्थे ततः कौतुकेन १ भूतिकर्मणा २ प्रश्नेन ३ प्रश्नाप्रश्नेन ४ निमित्तेन ५ च पञ्चविकल्पा-पश्चभेदा भवेत् सा च-आमियोगिकी भावना, तत्र बालादीनां रक्षादिकरणनिमित्तं स्नपनकरभ्रमणाभिमन्त्रणधुकरणधूपदानादि यत्क्रियते तत्कौतुकं उक्तं च|" विण्हवणहोमसिर परिरया य खारडहणाइं धूवे य । असरिसवेसग्गहणं अवतासणउच्छुभणबंधा ॥ १ ॥” [ अपि स्नपनहोमशिरः परिरयाश्च क्षारदहनानि धूपश्च । असदृशवेषग्रहणं अवत्रासनं क्षेपणं बन्धः ॥ १ ॥ ] तथा च सति शरीरभाण्डकरक्षार्थं भस्मसूत्रादिना यत्परिवेष्टनकरणं तद् भूतिकर्म, उक्तं च- "भूईए मट्टियाइ व सुत्तेण व होइ भूइकम्मं तु । वसहीसरीरभंडयरक्खा अभिओगमाईया ॥ १ ॥” [ भूत्या मृत्तिकया वा सूत्रेण वा भवति भूतिकर्म तु । वसतिशरीरभाण्डरक्षा अभियोगादिकाश्च ॥ १ ॥ ] तथा यत्परस्य पार्श्वे लाभालाभादि पृच्छयते स्वयं वा अङ्गुष्ठदर्पणखङ्गतोयादिषु दृश्यते स प्रश्नः उक्तं च - " पण्हो य होइ पसिणं जं पासइ वा सयं तु तं पसिणं । अंगुङ्कुचिट्ठपए दप्पणअसितोयकुड्डाई ॥ १ ॥” [ प्रश्नश्च भवति प्रच्छनं यत् पश्यति वा स्वयं तु स प्रश्नः । अङ्गुष्ठोच्छिष्टपदे दर्पणासितोयकुड्यादिषु ॥ १ ॥ ] तथा स्वप्ने स्वयं विद्यया कथितं घण्टिकाद्यवतीर्णदेवतया वा कथितं सत् यदन्यस्मै शुभाशुभ
For Private & Personal Use Only
७३ अशुभभावनाः
गा. ६४१. ६४६
॥ १८१ ॥
v.jainelibrary.org

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444