________________
RECOLOGICHERECORRC-REAK
यितुं, अतः स्वकृतफलमुपनतमिदं ममेति १३ तथा याचनं याचा प्रार्थनेत्यर्थः सैव परीषहो याञ्चापरीषहः, भिक्षोहि वस्त्रपात्रानपानप्रतिश्रयादि परत एव सर्वमपि लभ्यं, शालीनतया च यद्यपि याञ्चां कर्तुं न शक्नोति तथापि त्रपामपहाय प्रागल्भ्यभाजा सजाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति १४ तथा लम्भनं लाभो न लाभोऽलाभ:-अभिलषितविषयाप्राप्तिः स एव परीषहोऽलाभपरीषहः, याचनीयालाभेऽपि-"बहुं परघरे अस्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा ॥१॥ [बहु परगृहेऽस्ति विविधं खाद्यस्वाद्यं । न तत्र पण्डितः कुप्येत् इच्छा परो दद्यात् न वा ॥ १ ॥] इत्यादि परिभाव्य प्रसन्नचेतसाऽविकृतवदनेन च भवितव्यं १५ तथा रोग:-कण्डूज्वरादिरूपः स एव परीषहो रोगपरीषहः, ज्वरकासश्वासादिके सत्यपि न गच्छनिर्गता जिनकल्पिकादयश्चिकित्साविधापने प्रवर्तन्ते, किन्तु सम्यगेव तदधिसहन्ते स्वकर्मणः फलमिदमुदितमिति चिन्तयन्तः, गच्छवासिनस्त्वस्पबहुत्वालोचनया सम्यग् सहन्ते प्रवचनोक्तेन वा विधिना चिकित्सामपि कारयन्तीति १६ तथा तरन्तीति तृणानि, औणादिको नक्त इस्वत्वं च, तेषां स्पर्शस्तृणस्पर्शः स एव परीषहस्तृणस्पर्शपरीषहः, अशुषिरतृणस्य हि दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छ-10 वासिनां च यतीनां, तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान् भूमावीषदातादियुक्तायामास्तीर्य संस्तारोत्तरपट्टको च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणो वा अत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते, तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाप्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितृणस्पर्श सम्यक् सहेतेति १७ तथा मल:-प्रस्वेदजलसम्पर्कतः कठिनीभूतं रजः स एव परीषहो मलपरीषहः, मलो हि वपुषि स्थिरतां गतो ग्रीष्मोष्मसन्तापजनितधर्मजलार्द्रतां प्राप्तो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिषेकाद्यमिलापं कुर्यादिति १८ तथा सत्कारो-भक्तपानान्नवस्त्रपात्रप्रदानवन्दनाभ्युत्थानासनसम्पादनस
For Private Personal Use Only
Jain Education in
linelibrary.org