Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SoctoCAR
S
तनुमुनिहीलना, तथा चाह-"अण्हाणमाइएहिं साहुं तु दुगुंछई दुगुंछ"त्ति [अस्नानादिमिः साधु जुगुप्सते जुगुप्सेति] । तथा क्रोधादीनां चतुष्क-क्रोधमानमायालोभलक्षणं एते चतुर्दश आभ्यन्तरा ग्रन्थाः ॥ ७२१॥ अथ बाह्यं ग्रन्थमाह-क्षेत्रं-सेत्वादि वास्तु-खातादि धनं च-15 हिरण्यादि धान्यं च-शाल्यादि तयोः सञ्चयो-राशिर्धनधान्यसञ्चयः मित्राणि च-सहवर्धितादीनि ज्ञातयश्च-स्वजनास्तैः संयोगःसम्बन्धो मित्रज्ञातिसंयोगः, यानानि च-शिबिकादीनि शयनानि च-पल्यंकादीनि आसनानि च-सिंहासनादीनि यानशयनासनानि, चः समुच्चये दासा-अङ्कपतिताः दास्योऽपि-तथाविधा एव कुप्यं च-विविधगृहोपस्करात्मकं, अत्र च धनधान्यसञ्चयो मित्रज्ञातिसंयो. गश्चेति द्वौ, शेषाश्चाष्टेति दशविधो बाह्यग्रन्थः ॥ ७२२ ।। अथ पुलाकादीन् व्याचिख्यासुः प्रथमं पुलाकव्याख्यानमाह-'धन्नमसारं' | गाहा, पुलाकशब्देनासारं-निःसारं धान्यं तण्डुलकणशून्यं पलखिरूपं भण्यते तेन पुलाकेन सम-सदृशं यस्य साधोश्चरणं-चारित्रं भवति स पुलाकः, पुलाक इव पुलाक इतिकृत्वा, अयमर्थः-तपःश्रुतहेतुकायाः सङ्घादिप्रयोजने सबलवाहनस्य चक्रवादेरपि चूर्णने समर्थाया लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा सकलसंयमसारगलनात् पलजिवन्निःसारो यः स पुलाकः, स च द्विधा-लब्ध्या सेवया च, लब्धिपुलाकः सेवापुलाकश्चेत्यर्थः, तत्र लब्धिपुलाको देवेन्द्रर्द्धिसमसमृद्धिको लब्धिविशेषयुक्तः, यदाह-संघाइयाण कजे चुण्णेजा चकवटिमवि जीए । तीए लद्धीऍ जुओ लद्धिपुलाओ मुणेयब्बो ॥१॥"[संपादिकानां कार्ये चूर्णयति चक्रवर्तिनमपि यया । तया 1 लब्ध्या युतो लब्धिपुलाको ज्ञातव्यः ॥ १॥] अन्ये त्वाहुः-आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव च लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति, आसेवापुलाकस्तु पञ्चविधः-ज्ञानपुलाकः दर्शनपुलाकः चारित्रपुलाकः लिङ्गपुलाकः यथासूक्ष्मपुलाकश्च, तत्र स्खलितमिलितादिमिरतिचारैनिमाश्रित्यात्मानमसारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलो-18
R
C-CHANGRECROCHECCESCRI.
OGRESCRESTLis
wwwantarima
HainEducation
For Private Personal use only
2w.jainelibrary.org

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444