Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 418
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ९४ श्रमणपंचक गा.७३१. ॥२१२॥ E णानामुत्तरगुणानां चान्यतमस्य विराधना, तत्त्वार्थभाष्ये तु "प्रतिसेवना पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति, मैथुनमेवेत्येके, प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते” इत्युक्तं, तथा उत्तरगुणेषु प्रतिसेवको बकुशः, उत्तरगुणानामेव विराधको न मूलगुणानामित्यर्थः, शेषास्तु कषायकुशीलनिर्ग्रन्थस्नातकाः प्रतिसेवनारहिताः, मूलगुणानामुत्तरगुणानां च अविराधका एवेति भावः, अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तजघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्येयतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं, चारित्रपर्याया अपि चामीषां पञ्चानामपि प्रत्येकमनन्ताः, यत उक्तम्-"पुलागस्स णं भंते! केवइया चरित्तपज्जवा पन्नत्ता ?, गोयमा ! अणंता चरित्तपज्जवा पन्नत्ता, एवं जाव सिणायस्स"त्ति ॥ ७२९ ॥ अथैते पुलाकादयः पञ्चापि कियन्तं कालं यावत्प्राप्यन्ते ?, तत्राह-निर्ग्रन्थस्नातकानां पुलाकसहितानां त्रयाणामपि निर्ग्रन्थभेदानां व्यवच्छेदः-अभावो 'मणपरमोहिपुलाए' इत्यादिवचनात् जम्बूस्वामिनोऽनन्तरमेते त्रयोऽपि न जाता इत्यर्थः, बकुशकुशीललक्षणाः पुनः श्रमणाः-साधवो यावत्तीर्थं तावद्भविष्यन्ति, 'बकुसकुसीलेहिं वट्टए तित्यं' इति वचनात् ९३ ॥ ७३० ॥ इदानीं 'समण'त्ति चतुर्नवतं द्वारमाह निग्गंथ १ सक्क २ तावस ३ गेरुय ४ आजीव ५ पंचहा समणा । तम्मि निग्गंथा ते जे जिणसासणभवा मुणिणो ॥ ७३१ ॥ सक्का य सुगयसीसा जे जडिला ते उ तावसा गीया । जे धाउरत्तवत्था तिदंडिणो गेरुया ते उ॥७३२॥ जे गोसालगमयमणुसरंति भन्नति ते उ आजीवा । समणत्तणेण भुवणे पंचवि पत्ता पसिद्धिमिमे ।। ७३३ ॥ - % * ॐ M ॥२१२॥ ॐ Jain Education For Private & Personel Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444