Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ २१४ ॥
Jain Education
सधूमं ततश्च भोजनगतविरूपरसगन्धास्वादतो जाततद्विषयव्यलीकचित्तस्य सतोऽहो विरूपं कथितमपकमसंस्कृतमलवणं चेति निन्दावशाद्भूमेन सह यद्वर्तते तत्सधूमं चारित्रमिति ॥ अधुना कारणमाह - ' वेयणे' त्याद्युत्तरार्ध, वेदनातकप्रमुखानि पट् कारणानि प्रत्येकं भोजने अभोजने च ज्ञेयानि, पुंस्त्वं च प्राकृतत्वात्, अयमर्थः - वेदनादिभिः षड्भिः कारणैर्भोजनं कुर्वाणः आतङ्कप्रमुखैश्च षङ्गिः कारणैर्भोजनमकुर्वाणस्तीर्थकृदाज्ञां नातिक्रामति पुष्टकारणत्वात्, अन्यथा त्वतिक्रामत्येव रागादिभावादिति ॥ ७३६ ॥ तत्र वेदनादीनि षट् भोजनका | रणानि तावदाह - 'वेयण' गाहा, इह पदैकदेशे पदसमुदायोपचारात् सुळ्यत्ययाच्च 'वेयण'ति क्षुद्वेदनोपशमाय भुञ्जीतेति सर्वत्र क्रियासम्बन्धः, बुभुक्षा हि न शक्यते सोढुं बुभुक्षायाः सर्ववेदनातिशायित्वात् उक्तं च- 'छुहासमा वेयणा नत्थि' त्ति [ क्षुधासमा वेदना नास्ति ] तथा वैयावृत्त्यकरणाय, बुभुक्षितो हि गुर्वादीनां न शक्नोति वैयावृत्त्यं कर्तु तथा ईर्येति – ईर्यासमितिः सैव निर्जरार्थिभिरर्थ्यमानतया - ऽर्थस्तस्मै, बुभुक्षापीडितस्य हि चक्षुर्भ्यामपश्यतः कथमिव ईर्यासमिति परिपालनं स्यात् ?, तथा संयमार्थाय क्षुधार्त्तो हि न प्रेक्षोत्प्रेक्षा| प्रमार्जनादिलक्षणं संयमं विधातुमलं अतः संयमाभिवृद्ध्यर्थं, तथा प्राणा-उच्छ्रासादयो बलं वा प्राणास्तेषां तस्य वा वृत्तिः - पालनं तदर्थं | प्राणसंधारणार्थमित्यर्थः यद्वा प्राणप्रत्ययं - जीवितनिमित्तं, अविधिना ह्यात्मनोऽपि प्राणोपक्रमे हिंसा स्यात्, अत एवोक्तम्- 'भावियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणंमि परंमि य तो वज्जे पीडमुभओवि ॥ १ ॥' [भावितजिनवचनानां ममत्व| रहितानां नास्त्येव विशेषः । आत्मनि परस्मिन्नपि च ततो वर्जयेत् पीडामुभययोरपि ॥ १ ॥ ] षष्ठं पुनरिदं कारणं - यदुत 'धर्मचिन्तायै' | धर्मचिन्ता - धर्मध्यानचिन्ता श्रुतधर्मचिन्ता वा प्रन्थपरावर्तनचिन्तनवाचनादिरूपा, इयं शुभयरूपाऽपि बुभुक्षाऽऽकुलितेचतसो न स्यादार्त्तध्यानसम्भवादिति । इह च यद्यपि वेदनोपशमादीनां शाब्या वृत्त्या तदुपलक्षितभोजनफलत्वेन प्रतीतिः तथापि तैर्विना तन्निषेधसूचना -
For Private & Personal Use Only
९५ ग्रासैपणापंचकं
गा. ७३४
७३८
॥ २१४ ॥
www.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444