Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 415
________________ प्र. सा. ३६ Jain Education In 1 |रित्रं तेन युक्ताः छेदयोग्यशबलचारित्रयुक्ताः ॥ ७२४ ॥ अथ कुशीलमाह - 'आसेवणा' गाहा, मूलोत्तरगुणविराधनात् स वलनकषायोदयाद्वा कुत्सितं शीलं - चारित्रं यस्य स कुशीलः, स च द्विधा - आसेवनाकुशीलः कषायकुशीलव, आसेवना - संयमस्य विपरीताऽऽराधना | तया कुशील आसेवनाकुशीलः कषायैः - सडवलनक्रोधाद्युदयलक्षणैः कुशीलः कषायकुशीलः, द्विविधोऽपि कुशीलः पश्वविधो- ज्ञानदर्शनचरणतपोयथासूक्ष्मभेदात्, अयमर्थः - प्रतिसेवनाकुशीलः पञ्चविधो ज्ञानदर्शनचारित्रतपः प्रतिसेवकः सूक्ष्मप्रतिसेवकञ्च तत्र ज्ञानदर्श| नचारित्रतपांस्युपजीवन् तत्प्रतिसेवक उच्यते, अन्ये तु तपःस्थाने लिङ्गं पठन्ति एष एव शोभनस्तपस्वीत्यादिप्रशंसया यस्तुष्यति स सूक्ष्मप्रतिसेवकः, कपायकुशीलोऽपि पञ्चविधो-ज्ञानदर्शनचारित्रतपः कषायकुशीलः सूक्ष्मकषायकुशीलश्च तत्र ज्ञानदर्शनतपांसि सव|लनक्रोधकषायाद्युपयुक्तो यः स्वस्वविषये व्यापारयति स तत्तत्कषायकुशील उच्यते, कषायाविष्ट एव यः कस्यापि शापं प्रयच्छति स चारित्रकपायकुशीलः, मनसा तु क्रोधादीन् कुर्वन् सूक्ष्मकषायकुशीलः, अथवा सवलनक्रोधादिकषायाविष्ट एव ज्ञानदर्शनचारित्रतपांसि यो विराधयति - अतीचारमलिनानि करोति स ज्ञानादिकषायकुशीलः, सूक्ष्मकपायकुशीलस्तु तथैवेति ॥ ७२५ ॥ अथ निर्ग्रन्थमाह'उवसामगो य' गाहा, निर्गतो मोहनीयकर्मलक्षणात् प्रन्थादिति निर्ग्रन्थः, स द्विधा - उपशान्तमोहः क्षीणमोहश्च सूत्रे च 'वर्तमानसामीप्ये वर्तमानवद्वे 'ति न्यायादतीतकालाभिधानेऽपि 'उवसामगो य खवगो' न्ति वार्तमानिको वुण्प्रत्ययः उक्तं च - " सो उवसंतक - साओ खीणकसाओ व "त्ति, तत्र उपशान्तः- उपशमं नीतो विद्यमान एव सङ्क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो-मोहनीयं कर्म येन स उपशान्तमोहः, तथा क्षीणो मोहो यस्य स क्षीणमोहः, सूक्ष्मसम्परायावस्थायां सज्वलनलोभमपि निःशेषं क्षपयित्वा | सर्वथा मोहनीयकर्माभावं प्रतिपन्न इत्यर्थः, स द्विविधोऽपि प्रत्येकं पञ्चविधस्तद्यथा - प्रथमसमयनिर्मन्थोऽप्रथम समयनिर्प्रन्थश्वरमसमय For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444