Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 397
________________ कोदयकालमानं अन्तरकरणगतदलिकप्रक्षेपस्वरूपं च ग्रन्थविस्तरभयान्न लिख्यते, अन्तरकरणं च कृत्वा ततो नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, तथाहि-प्रथमसमये स्तोकं द्वितीयसमये ततोऽसयेयगुणं एवं च प्रतिसमयमसङ्ख्येयगुणं तावदुपशमयति यावच्चरमसमयः, परप्रकृतिषु प्रतिसमयमुपशमितदलिकापेक्षया तावदसङ्ख्येयगुणं प्रक्षिपति यावद् द्विचरमसमयः, चरमसमये तूपशम्यमानं दलिकं परप्र-18 कृतिषु सङ्क्रम्यमाणदलिकापेक्षयाऽसङ्ख्येयगुणं द्रष्टव्यं, उपशान्ते च नपुंसकवेदे स्त्रीवेदं प्रागुक्तविधिनाऽन्तर्मुहूर्तेनोपशमयति, ततोऽन्तर्मुहूर्तेन हास्यादिषट्कं तस्मिंश्योपशान्ते तत्समयमेव पुरुषवेदस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सकलमपि पुंवेदमुपशमयति, ततो युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ, तदुपशान्तौ च तत्समयमेव सज्वलनक्रोधस्य बन्धोद-18 योदीरणाव्यवच्छेदः, ततः समयोनाबलिकाद्विकेन सज्वलनक्रोधमुपशमयति, ततोऽन्तर्मुहूर्तेनाप्रत्याख्यानप्रत्याख्यानावरणौ मानौ युगपदुपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सज्वलनमानमुपशमयति, ततो युगपदन्तर्मुहूर्तेनाप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः, लोभवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च, तत्राद्ययोर्द्वयोनिभागयोर्वर्तमानः सज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च, अश्वकर्णकरणाद्धायां च वर्तमानः प्रथमसमय एव त्रीनपि लोभानप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपान युगपदुपशमयितुमारभते, | विशुद्ध्या वर्धमानश्चापूर्वाणि स्पर्धकानि करोति, अपूर्वस्पर्धकशब्दार्थश्च प्रागेवोक्तः, सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकादिकेन सज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गतायां किट्टिकरणाद्धायां प्रविशति, तत्र च पूर्वस्पर्धकेभ्यो MARATHI RECCASSSSSSSACACACASSAX MARCH For Private & Personal Use Only Mainelibrary.org Jain Education Intern

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444