Book Title: Pravachan Saroddhar Purvarddh
Author(s): Nemichandrasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
खंड असंखखंडाई काऊण || ७०५ || अणुसमयं एक्केकं उवसामह इह हि सत्तगोवसमे । होइ agar तत्तो अनियही होइ नपुमाइ ॥ ७०६ ॥ पसमंतो जा संखेयलोहखंडाओ चरिमखंडस्स | संखाईए खंडे समंतो सुहुमराओ सो ॥ ७०७ ॥ इय मोहोवसमम्मि कयम्मि उवसंतमोहगुठाणं । सङ्घट्टसिद्धिहेऊं संजायइ वीयरायाणं ॥ ७०८ ॥
इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्वप्रमत्तसंयतप्रमत्तसंयत देश विरताविरतानामन्यतमो भवति, अन्ये | त्वाहुः - अविरत देशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमोऽनन्तानुबन्धिनः कषायानुपशमयति, दर्शनत्रिकादिकं तु संयमे एव वर्तमानः, तत्र | प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः पद्मशुकुलेश्यान्यतमलेश्यायुक्तः साकारो|पयोगयुक्तोऽन्तः सागरोपमकोटीकोटीस्थितिसत्कर्मा करणकालात् पूर्वमप्यन्तर्मुहूर्तं यावद्विशुद्ध्यमानचित्तसन्ततिरवतिष्ठते, तथाऽवतिष्ठमा - नश्च परावर्तमानाः प्रकृतीः शुभा एव बध्नाति नाशुभाः, प्रतिसमयं चाशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानां चानन्तगुणवृद्ध्या, स्थितिबन्धेऽपि च पूर्णे सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासङ्ख्येयभागहीनं करोति, पूर्णे चान्तर्मुहूर्ते | क्रमेण यथाप्रवृत्तकरणा पूर्वकरणानिवृत्तिकरणाख्यानि प्रत्येकमान्तर्मुहूर्तिकानि त्रीणि करणानि करोति, चतुर्थी तूपशान्ताद्धां, करणवक्तव्यता च सर्वाऽपि कर्मप्रकृतेरवसेया, अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनाम| धस्तादावलिकामात्रं मुक्त्वाऽन्तर्मुहूर्तमानमन्तरकरणमन्तर्मुहूर्तेन करोति, अन्तरकरणदलिकं चोत्कीर्यमाणं वध्यमानासु परप्रकृतिषु प्रक्षिपति, प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुकसङ्क्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्ता -
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444